________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१०,चा,का।
स्तरां दृप्तिः, कृतस्तमा फल-दानम् । तस्माद्विग्रहादिमतां देवाना*मभावान देवता-प्रसादो यागस्य फल-द्वारम। किन्तु, श्रूयमाणफलसाधनत्वान्यथानुपपनि-कल्प्यमपूर्व तवारम् । अभ्युपगतेवपि देवेवपूर्वस्यैव फल-दारत्वमवश्यं वक्रव्यं, मन्त्रार्थवादेतिहाम-पुरा. णेषु देवानामपि तपश्चरण-क्रवनुष्ठान-ब्रह्मास्त्रादि-मन्त्र-प्रयोगेभ्यः समीहित-सिद्ध्यनुकीर्तनात् । तस्मान्न देवः फल-प्रदः-इति सिद्धम्। (१)ौपनिषदास्वीश्वरस्य फल-दाढत्वं मन्यन्ते।तथाहि, नदीये शाले(२) हतीयाध्याये विचारितम्। किं धर्मः फलं ददाति, आहोस्विदीश्वरः,इति संशयः । तत्र, मीमांसकोक-न्यायेन धर्मः फल-प्रदः, इति पूर्व पक्षः । सिद्धान्तस्तु, किं धोऽन्यानधिष्ठितएव फल-प्रदः, किं वा, केनचिच्चेतनेनाधिष्ठितः ? नाद्यः, अचेतनस्य तारतम्यानभिज्ञस्य यथोचित-फल-दाढत्वायोगात् । द्वितीये तु, येनाधिष्ठितः, सएव फल-दाताऽस्तु ।। न चैवं धर्मस्य वैयर्थमिति शङ्खनीयं,वैषम्य-नैर्घण्यपरिहाराय धर्मापेक्षणात् । असति तु धर्मे, कांश्चिदुत्तमं सुखं, कांश्चिन्मध्यम, कांश्चिदधर्म, प्रापयन्नीश्वरः, कथं विषमा न भवेत् । कथं वा विविधं दुःखं प्रापयन्निघृणोन भवेत् । धर्माधर्मानुसारेण नत्-प्रापणे गुरु-पिट-राजादीनामिव न वैषम्य-नेणे प्रातः ।
* देवादीना,...इति मु० पुस्तके पाठः । । फलं ददातु,-इति मु० पुस्तके पाठः । + चित्रं,-इति स पुस्तके पाठः ।
(१) औपनिषदावेदान्तिनः । (२) शारीरके।
For Private And Personal