________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,या का०]
पराशरमाधवः।
वेनान्वेति । तच करणं माध्य-स्वरूपत्वात् स्व-निष्पादकं मिळू । द्रव्यदैवतमितिकर्त्तव्यत्वेन + ग्रहाति, इति । ततो यागोऽङ्गी, देवता च तदङ्गम्। एवञ्च मति, नातिथिवद्देवता यागेनाराध्यते । यातु श्रुतिः,-"हप्तएवैनम्" इति, मासौ स्वार्थे तात्पर्यवती, प्रत्यक्षादि-विरोधात् । न हि, काचिदिग्रह-वती देवता हविर्भुवा हप्ता फलं प्रयच्छतीति प्रत्यक्षेणेपलभ्यते, प्रत्युत तदभावः प्रत्यक्षेण योग्यानुपलब्धया वा(२) प्रमीयते । किं च, अश्वमेधे "गां दंष्ट्राभ्यां मण्डकान् दन्तः ॥” इत्याचवयवानां दंशादि-द्रव्याणं हविषां भोकत्वेन गो" मण्डकादय-स्तिर्यच्चोऽपि" देवता-विशेषाः श्रूयन्ते । न च तेषां फल-प्रदाढवी सम्भाव्यते। "श्रोषधीभ्यः स्वाहा, वनस्पतिभ्यः स्वाहा, मूलेभ्यः स्वाहा"-इत्यादावचेतनानामोषधिवनस्पति-तदवयवानां देवतात्वं श्रूयते । तत्र, कुतोहविर्भीकत्वं, कृत
* साध्यल्यत्वात्,-इति स० सो० पुस्तकयोः पाठः । + सिद्ध,-इति नाति भु० पुस्तके।।
द्रव्यं देवतामितिकर्तव्यत्वेन,-इति मु. पुस्तके पाठः । 5 'इति' शब्दो नास्ति मु. पुस्तके। ॥ सैगां दंशाभ्यां मण्डूकान जन्येभिः, इति मु० पुस्तके पाठः । पा सैगामण्डूकादय, इति मु. पुस्तके पाठः ।। ** 'यपि' शब्दो नास्ति स. मो. शा. पुस्तकेषु ।
tt फलदाटत्वं,-इति स. सो. पुस्तकयोः पाठः । (१) प्रत्यक्षानुलम्भवाधितेऽर्थे श्रुतेः प्रामाण्याभावादितिभावः । स्पमिद
मात्मतत्त्वविवेके। प्रत्यक्षेणेति न्यायमते। प्रत्यक्षेणैवाभावोसह्यते योग्यानुलब्धित्तु तत्र सहकारिमात्रमिति सत्सिद्धान्तात् । योग्यानलब्धोति मीमांसकमते। तन्मतेऽभाववाहिकाया अनपलब्बेः प्रमाणान्तरत्वात् ।
For Private And Personal