________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२८२
पराशरमाधवः।
[ब०,पा०,का।
धात्वर्थातराणामननुप्रवेशात् प्रतिधात्वर्थ भावना-भेदः, इति सिद्वान्तः। एवं चाध्यापनादिभिः षभिधात्वर्थः षोढ़ा भावना भिद्यते,इति भवन्त्येतानि षट् कर्माणि । तेषु 'अभिरतिः' श्रद्धा-पूर्वकमनुठानम् । अश्रद्धालुनाऽनुष्ठितमप्यफलं स्यात् । तदाह भगवान्,
"अश्रद्धया हुतं दत्तं तपस्तप्तं कृतश्च यत्।
श्रसदित्युच्यते पार्थ, न च तत् प्रेत्य नो दह" ॥ इति । 'नित्यम्'-दूत्युत्तरत्रान्वेति न पूर्वत्र, अध्यापनादौनां त्रयाणामनित्यत्त्वात् । देवता च अतिथिश्च देवतातिथी, तयोः प्रतिदिन पूजकोभवेत् । देवता-खरूपञ्च वाजसनेयि-ब्राह्मणे, शाकल्य-याज्ञवल्क्य-संवादे विचार्य निर्णीतम् । तत्र, शाकल्यः प्रष्टा, याज्ञवल्क्योवका, देवता-विस्तार-मझेपो स्वरूपञ्च प्रष्टयोऽर्थः । तत्र चैषा श्रुतिः । "अथ हैनं विदग्धः शाकल्यः पप्रच्छ ; कति देवता याज्ञवल्क्येति । स हैतयैव निविदा प्रतिपेदे ; यावन्तो बैश्वदेवस्य निविद्युच्यन्ते, जयश्च त्रौच शता त्रयश्च त्रीच सहस्रति। मिति होवाच; कत्येव देवा याज्ञवल्क्येति, प्रयस्त्रिंशदिति । श्रमिति होवाच ; कत्येव देवा याज्ञवल्नक्येति, पड़िति। ओमिति होवाच ; कत्येव देवा याज्ञवल्क्येति, जय इति । ओमिति होवाच; कत्येव तु देवा याज्ञवल्कोति, दाविति। श्रोमिति होवाच ; कत्येव देवा याज्ञवल्क्येत्यध्यर्द्ध इति । ओमिति होवाच; कत्येव देवा याज्ञवल्कोत्येक इति। मिति होवाच ; कतमे ते त्रयश्च बीच मता त्रयश्च बीच सहस्रति । म
* विस्तारसंक्षेपौ च,-इति मु० पुस्तके पाठः ।
For Private And Personal