________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[१०,या.का.।
"अयाचितापपन्नेषु नास्ति दोषः प्रतिग्रहे ।
अमृतं तद्विदु* वास्तस्मात्तन्नैव निर्णदेत्” ॥ इति । तत्र भजदाराभिप्रेतान् वस्तु-विशेषानिर्दिशति याज्ञवल्क्यः,
"कुमाः शाकं पयो मत्स्था गन्धाः पुष्पं दधि क्षितिः । मांसं शय्याऽऽसनं धानाः। प्रत्याख्येयं न वारि च ॥ अयाचिताहृतं ग्राह्यमपि दुष्कृत-कर्मणः ।
अन्यत्र कुलटा-पण्ड-पतितेभ्यस्तथा द्विषः" ॥ इति । मनुरपि,
"शथ्यां कुशान् ग्टहान् गन्धानपः पुष्यं मणिं दधि । मस्यान् धानाः पयोमांसं शाकं चैव न निर्णदेत् ॥ एधोदकं मूल-फलं अन्नमभ्युद्यतञ्च यत् ।
असतः प्रतिग्टहीयान्मधु चाभय-दक्षिणाम्" इति । प्रतिग्रहानधिकारिणं मएवाह,
"हिरण्यं भूमिम, गामन्नं वासस्तिलान् घृतम् ।
अविद्धान प्रतिग्टहानो भस्मीभवति काष्ठवत्" इति । याज्ञवल्क्योऽपि,
"विद्या-तपोभ्यां होनेन नतु ग्राह्यः प्रतिग्रहः ।।
ग्टहून् प्रदातारमधो नयत्यात्मानमेव च ॥ इति । विदुषस्तु न कोऽपि प्रतिग्रहोदोषावह इति वाजसनेयि-ब्राह्मणे
* तं विदु, इति मु० पुस्तके पाठः । + धान्यं,-इति मु० पुस्तके पाठः ।
For Private And Personal