________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२
पराशरमाधवः।
[१य,बाबा
रात्रि-दानादि-निषेधं प्रक्रम्य "मुक्ता मकर-कर्कटौ"-इतिपर्युदामात्। मत्स्य-पुराणे दानस्य प्रथस्ता देशविशेषा निर्दिष्टाः,
"प्रयागादिषु तीर्थेषु पुण्येवायतनेषु च।
दत्वा चाचयमाप्नोति नदी पुण्य-वनेषु च” ॥ इति । तथा व्यासेनापि,
"गङ्गा-दारे प्रयागे च अविमुक्के च पुष्करे। मकरे चाट्टहासे च गङ्गा-मागर-सङ्गमे । कुरु-क्षेत्रे गया-तौर्थे तथाचामर-कण्ट्र के । एवमादिषु तीर्थेषु दत्तमक्षयतामियात्" ॥
॥०॥ इति दानप्रकरणम् ॥०॥ तदेवं सेतिकर्त्तव्यं दान-प्रकरणं निरूपितम् , अथ प्रतिग्टहानिरूप्यते । तत्र श्रौतोविधिः पूर्वमुदाहृतः ;-"द्रव्यमर्जयन् ब्राह्मणः प्रतिग्टहीयात्”, इति। तत्र, याजने श्रेयं चर्चा पूर्वमनुकान्ना, सेयं प्रतिग्रहेऽपि यथासम्भवमनुसन्धातव्या ।
ननु प्रतिग्रहो मनुना निन्दितः,___ "प्रतिग्रहः प्रत्यवरः स तु विप्रस्य गर्हितः" ॥ इति ।
मैवम्, अस्यानिन्दाया असत्-प्रतिग्रहा विषयत्वात्। तथोपरितने वचने स्पष्टीकृतम्,
* दत्त्वाचाक्षय्यमानोति, इति मु० पुस्तके पाठः । +नदी,इत्यत्र, तदा, इति स०सो० पुस्तकयाः पाठः।
तत्र याजने पर्वमनुकान्तोय,-इति भु• पुस्तके पाठ । ६ सन्धातव्यः, -इति मु. पुस्तके पाठः। T साधुप्रतिग्रह-इति मु. पुस्तके पाठः।
-
-
For Private And Personal