________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,पाका
पराशरमाधवः ।
१२
सदृशौ दिवस-च्छिद्र-समाख्याः प्राह भार्गवः ॥ छेदादि-कालः कथितस्तिथि-कृत्ये घटौ-दयम् । नाग-वति-समोपेतो तच्छेदत्व-फलेयुतम् ॥ पलैः षोड़शभिः युक्तं नाडिका-द्वितयं युतौ ।
छेदादि-ममयः प्रोक्तो दानेऽनन्त-फल-प्रदः" ॥ दानस्य निषिद्ध-कालमाहतुः शङ्ख-लिखितौ,
"आहारं मैथुनं निद्रां सन्ध्या-कालेषु वर्जयेत् ।
कर्म चाध्यापनञ्चैव तथा दान-प्रतिग्रहो” ॥ इति । स्कन्द-पुराणे,--
"रात्री दानं न कर्त्तव्यं कदाचिदपि केनचित् । हरन्ति राक्षमा यस्मात्तस्मादातुर्भयावहम् । विशेषतोनिशीथे तु न शुभं कर्म धर्मणे ॥
अतोविवर्जयेत् प्राज्ञोदानादिषु महानिशाम्" । इति । तच प्रतिप्रसवमाह देवलः,
"राहु-दर्शन-संक्रान्ति-यात्राऽऽदौ प्रसवेषु च ।
दानं नैमित्तिकं ज्ञेयं रात्रावपि तदिव्यते" ॥ इति । अत्र संक्रान्ति-शब्दोमकर-कर्कट-विषयः, स्मृत्यन्तरे संक्रान्तिषु
* तिथिकृत्ये घटीदयम्,-इति नास्ति मु. पुस्तके । + क्षादिसङ्गमोपेतं,-इति मु० पुस्तके पाठः। + युगे,--इति मु० पुस्तके पाठः । 5 'इति' शब्दो मास्ति स. मा. पुस्तकयोः। पा विवाहात्ययद्धिघु,-इत्यन्यत्र पाठः । अत्ययोमरणं, सद्धिः पुत्र भन्मादिः, इति तत्रार्थः।
For Private And Personal