________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६६
परापारमाधवः ।
१ अआका० ।
ब्रह्म-पुराणेऽपि,
"मदाचाराः कुलीनाश्च रूपवन्तः प्रियम्वदाः । बहु-श्रुताश्च धर्मजायाचमानाः परान् यहान् ।। दृश्यन्ते दुःखिनः मर्च प्राणिनः मर्वदा मुने ।
अदत्त-दाना: जायन्ते पर-भाग्योपजीविनः'' ॥ इति । व्यासेोऽपि,
"अक्षर-द्वयमभ्यस्तं नास्ति नास्तीति यत् पुरा ।
तदिदं देहि देहीति विपरीतमुपस्थितम्" ॥ इति । स्कान्देऽपि,
"देहीत्येवं ब्रुवन्नर्थों जनं बोधयतीव म: । यदिदं कष्टमर्थित्वं प्रागदान-फलं हि तत् ।। एकेन तिष्ठताऽधस्तादन्येनोपरि तिष्ठता। दाढ-याचकयोर्भदः कराभ्यामेव सूचितः ।। दीयमानन्तु योमाहात् गो-विप्राग्नि-सुरेषु च ।
निवारयति पापात्मा तिर्यगयोनि व्रजेत् तु मः" ॥ इति । शातातपोऽपि,
"मा ददखेति योब्रूयात् गव्यग्नौ ब्राह्मणेषु च ।
तिर्यग-योनि-शतं गत्वा चाण्डालेष्वपि जायते"॥ इति । दानस्य स्वरूपं तत्रेतिकर्त्तव्यताच* देवलादर्शयति,
"अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् ।
___ * तथेतिकर्त्तव्यताच,-इति स० मा० शा० पुस्तकेषु पाठः ।
For Private And Personal