________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५ अ०,श्रा० का
परापार माधवः ।
दानमित्यभिनिर्दिष्टं व्याख्यानं तस्य वक्ष्यते ॥ वे हेतुः षड़धिष्ठानं षड़ङ्गं षड्विपाक-युक् । चतुः-प्रकारं त्रि-विधं त्रि-नादं दानमुच्यते । नान्यत्वं वा बहुत्वं वा दानस्याभ्युदयावहम् । श्रद्धा भक्निश्च दानानां वृद्धि-श्रेयस्करे हि ते ॥ धर्मामर्थच कामञ्च ब्रीडा-हर्ष-भयानि च । अधिष्ठानानि दानानां पड़ेतानि प्रचक्षते ॥ पात्रेभ्यादीयते नित्यमनपेक्ष्य प्रयोजनम । केवलं धर्म-बुद्ध्या यत् धर्म-दानं तदुच्यते ॥ प्रयोजनमुपेक्ष्यैव प्रसङ्गात् यत्प्रदीयते । तदर्थ-दानमित्याहुरैहिकं फल-हेतुकम् ॥ स्त्री-पान-मृगयाऽक्षाणं प्रसङ्गाद् यत् प्रदीयते । अनहेषु च रागेण काम-दानं तदुच्यते । संसदि ब्रीड़या स्तुत्या चार्थिभ्योयत् प्रयाचितम्॥ प्रदीयते च यद्दानं बौड़ा-दानमिति स्मृतम् ॥ दृष्टा प्रियाणि श्रुत्वा वा हर्वाद् यद्यत् प्रयच्छति । हर्ष-दानमिति प्राहुर्दानं धर्म-विचिन्तका: ॥ आक्रोशनार्थं हिंसाना प्रतीकाराय यद्भवेत् ।
* डिक्षयकरे, इति स० मा पुस्तकयोः पल्ठः । + त्यागबुड्या,-इति स० स० पुस्तकयोः पाठः । + तहमचिन्तका,इति स० मो. शा. पुस्तकेषु पाठः । 5 आक्रोशानर्थहिंसाना-इति स. मो. पुस्तकयोः पाठः ।
For Private And Personal