________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,या०का ]
पराशरमाधवः ।
तविधिस्तावकत्वेन, 'यदै किं च'-इत्यादेः पठितत्वात् । तस्य* विधेरयमर्थः ;-दष्टि-विकृतिरूपे सोमारौद्रे चरावतिदेशतः प्राप्तासु मामिधेमीषु मध्ये प्रक्षेप्तव्यौ धाय्या संज्ञको यौ धौ मन्त्रौ, तौ मानवौ कर्त्तव्यौ, दति। तब,मानव-वचममुक्तार्थवादेन अस्यते । अतोन स्मृति-प्रामाण्यं वेदेनेोकम् इति शाक्यादि-स्मृतिवदप्रमाणभूताएव मन्वादि-स्मृतयः । तथाचोकम्,
"प्रायेणानृत-वादित्वात् पुंसां भ्रात्यादि-सम्भवात् ।
चोदनाऽनुपलब्धेश्च श्रद्धामात्रात् प्रमाणता"(१) ॥ इति। (२)अस्तु वा, कथंचित् मनु-स्मृतेः प्रामाण्यम्, तथापि, प्रकृतायाः
* तस्य च,-इति मु० पुस्तकपाठः। + तत्र मानवत्वमुक्तेनार्थवादेन प्रशस्यते, इति मु° पुस्तकपाठः । + दुनिरूपं प्रमाण्यं,-इति मु० पुस्तकपाठः ।
(१) 'पुंसाम्'-इति मध्यपठितं मध्यमणिन्यायात पूर्वापरयोरन्वेति ।
'श्रद्धामात्रात्'-इत्यनेन, अप्रमाणभूताएव स्मृतयः, श्रद्धा-जड़स्यैव तु परं तत्र प्रामाण्याभिमानः, इत्युक्तम् । यद्यपि कार्य्यताबोधकपदान्तीवेनैव पदानामन्वयबोधहेतुत्वं पूर्वमवधुतं, तथाप्यर्थवादेभ्योपि शाब्दमतेरुत्पादात् तस्याश्चानुभवसिद्धत्वेनायलपितुमशक्यत्वादुत्तरकालं तदुपेक्ष्यते, पूर्वग्रहीतस्यापरिहार्यत्वानियमात् । तदुक्तम् "कार्यत्वस्यान्वयज्ञाने प्राक् ग्टहीतापि हेतुता। पदानामर्थवादेभ्यः पश्चाबोधादुपेच्यते”-इति । । बिधिस्तावकत्वमप्यर्थवादानां असति बाधके खार्थहारैव, न तु स्वार्थपरित्यागेन । अन्यथा, "यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम्। अभिलाघोपनीतं यत् तत् सुखं खःपदास्पदम्”-इत्याद्यर्थवादेभ्यः खर्गादिकमपि न सियेत् । तदिदमुक्तम् । “खार्थद्दारैव तात्पर्य तस्य खादिवत् विधौ”-इति । तमिमं न्यायसिद्धान्तं वक्ष्यमाणमुत्तरमीमांसासिद्वान्तञ्च मनमि निधायाह अस्तु वेति ।
For Private And Personal