________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[११०,०का ।
पराशरस्मतेः किमायातम् ? । नहि मनोरिव पराशरस्य महिमानं कचिवेदः प्रख्यापयति(१) । तस्मात् , तदीय-स्मते१निरूपं प्रामाण्यम् ।
अत्रोच्यते। प्रामाण्यस्य स्वतस्वात् अप्रामाण्ये कारणाभावाच स्पतयः प्रमाणम्(२) । यत्तु,-अप्रामाण्य-साधकमनृत-वादित्वादि हेतुत्रयमुपन्य स्तम् । तदसिद्धम,(२) श्रा-जन्म-सिद्धेषु मनु-पराशरादिषु अनृत-वदन -धान्योरत्यन्तानाशङ्कितत्वेन हेत्व:) स्वरूपासिद्धेः । नवा श्राजन्म-सिद्धौ विवदितव्यम्, पराशरादि-सद्भाव-वाधिनामेव (५) मन्त्रार्थवादेतिहास-पुराणानां(१) तदीय-सिद्धि-बोधकत्वात् । * तदीयस्मतेः प्रामाण्यं दुर्निरूपमिति, इति मु० पुस्तकपाठः । + वादन,-इति मु. पुस्तकपाठः । । न चाजन्मसिद्धावेव,-इति मु° पुस्तकपाठः ।
६ सद्भावाधबोधकानामेव,-इति मु० पुस्तकपाठः । (१) यथा मनोर्महिमानं वेदः प्रख्यापयति, तथा पराशरस्य न,-इति
व्यतिरेके दृष्टान्तः। (२) धियां तत्त्वपक्षपातखाभाव्यात् प्रामाण्यस्य खतस्त्वम् । यत्रेदमुक्तम् ,--
"निरुपद्रवभूतार्थखभावस्य विपर्यायैः। न वाधो यत्नवत्वेपि बुद्धेस्तत् पक्षपाततः" इति । सत्यपि धियां तत्त्वपक्षपातखाभाव्ये शुक्तिरज
तादिबुद्धीनां यदप्रामाण्यं तदोषादेव, स्मृतिषु च स नास्तीति भावः । (३) 'तदसिद्धम्'-इतिसामान्याभावे विशेषाभावकूटस्य हेतुत्वमाह था
जन्मेति । (8) व्यतवदनभ्रान्त्योरप्रामाण्यसाधकयारित्यर्थः । (५) पराशरादिसझावं बोधयितुं शीलं येषामिति णिन् । (६) "तच्चोदकेषु मन्त्राख्या” (२,१,३२) इति जैमिनिसूत्रम् । अभिधा
नस्य चोदकेषु मन्त्रसंज्ञा इति तदर्थः। "प्रायिकमिदं लक्षणम् , बनभिधायका अपि केचित् मन्त्रा इत्युच्यन्ते"- इति शावरभाष्यम्। "अभियुक्तानां मन्त्रोऽयमिति समाख्यानं मन्त्रलक्षणम"-(२,१, ७०) इति न्यायमालाविस्तरे। अर्थवादलक्षणं पूर्वमुक्तम् । इति
For Private And Personal