________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
रिया
[१च्य०,का०का।
रात्। “यदै किं च मनुरवदत्तनेषजम्" इति धावायते। नत्वेवं शाक्यादि-स्मृत्यनुग्राहकं किञ्चिद्वैदिकं वचोऽस्ति । अतोनोक्रातिप्रसङ्ग' -इति । तन, 'यदै किं च,'–इत्यस्यार्थवादत्वेन खार्थे तात्पर्याभावात्()। "मानवी ऋची धाये कुर्यात्” इति विधानात्
(१) कार्य्यताबोधकप्रत्ययासमभिव्याहतं वाक्यमर्थवादः । अयमभिसन्धिः ।
प्रथमतोद्धव्यवहारादेव सर्वशब्दानां शक्तिग्रहः व्याकरणादीनां व्यवहाराधीनशक्तिग्रहमूलकत्वात्। व्यवहारश्च गवामयनादिरूपः 'गामानय'-इत्यादिकार्य्यतावाचिप्रत्ययसमभिव्याहतवाक्यसाध्या 'गौरस्ति'-इत्यादिताव्यवहारासम्भवात् । तथाच प्रवर्तकवाक्यएव व्युत्पत्तिग्रहेण उपस्थितत्वात् कार्य्यत्वान्वयबोधं प्रत्येकपदानां हेतुत्वं व्युत्पत्सुरवधारयति । तस्मादर्थवादस्थले न शाब्दबोधः, किन्तु पदार्थानामुपस्थित्यनन्तरं असंसर्गाग्रहमात्रम्। प्रयोजनन्धर्थवादानां विधिस्तुति-निषेधनिन्दाभ्यां प्रत्ति-निवृत्ती रव। तथाहि, बहुवित्त. व्ययायामसाध्ये यागादौ पुरुषं प्रवर्तयितुमपारयन्तो विधिशक्तिरवसीदति, सा च स्तुत्या उत्तभ्यते, इति प्रत्तिफलिकायां शाब्दयां भावनायां अङ्गत्वं स्तुत्यर्थवादानाम् । तदुक्तम् । "लिडोऽभिधा सैव च शब्दभावना भाव्या च तस्यां पुरुषप्रत्तिः । संबन्धबोधः करणं तदीयं प्ररोचना चागतयोपयुज्यते"-इति। एवं नित्तिफलिकायां भावमायामङ्गत्वं निन्दार्थवादानां बोध्यम् । स्तुतिनिन्दे घ, “यस्य पर्णमयी जुऊर्भवति न स पापरलोकं टणोति”-इति, "तस्य यदश्रयसीयंत तद्रमतमभवत्".-इति चैवमादिवदसताप्यर्थेन दृश्येते, इति न खार्थे तात्पर्य्यमर्थवादानाम्, इति मीमांसकसिद्धान्तः । स्परञ्चतत् पूर्वमीमांसादावर्थवादाधिकरणादौ । यथा चौदाहतार्थवादयोः (दस्यपर्णमयीत्यादि तस्य यदश्रु इत्याद्योः) अर्थो न वस्तुतः सन्तो, तथा मीमांसादर्शनस्य चतुर्थाध्यायटतीयपादस्थ द्वितीयसूत्रस्य, एवं तस्यैव प्रथमाध्याय द्वितीयपाद दशमसूत्रस्य शावरभाष्ये यथाक्रम स्पष्ठम् ।
For Private And Personal