________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५४
पराशरमाधकः।
[१०,या का०
गोमवादयोमहायज्ञाः-तवः" इति । एते सर्च यज्ञाः यथायोग नित्य-नैमित्तिक-काम्य भेदेन विविधाः;
“नित्यं नैमित्तिकं काम्यं त्रिविधं कर्म पौरुषम्"। इति मदालसातः। तत्र, यज्ञानां नित्यत्वं बाथर्वणशाखायां श्रूयते,"मन्त्रेषु कर्माणि कवयोयान्यपश्यंस्तानि त्रेतायां वहधा सन्ततानि, तान्याचरथा नियतम्" इति । राजसनेयि? शाखायामपि,
___ "कुर्वन्नेवेह कर्माणि जिजीविषेत समाः”। इति । “एतदै जरामर्यमग्निहोत्रं जरसा वा वास्मान्मुच्यते मृत्युना च"-इति च । विधि-वाक्येषु च जीवनाथुपवन्धस्तु नित्यत्व-लक्षकं । तथा|| "यावजीवममिहोत्रं-जुहुयात्" "यावज्जीवं दर्श-पौर्णमासाभ्यां यजेत”-इति । प्रकरणे प्रत्यवायश्च नित्यत्व-गमकः । तथाचार्वणे श्रूयते,-"यस्थाननिहोत्रमदर्श-पौर्णमासमनाग्रयणमांतथिवर्जितं बाहुतमवैश्वदेव* भविधिना इतमासप्तमांस्तस्य लोकान् हिनस्ति” इति । तथाच श्रुत्यन्तरम्,–“यस्य पिता पितामहोबा सामं न पिवेत्, स ब्रात्यः" इति । जीवन-कामना-व्यतिरिक्त-रह-दाहाधनियत-निमित्तमुपजीव्य प्रवत्तं नैमित्तिकम्। तथाच श्रुतिः,
* महायज्ञक्रतवः,---इति स०स० पुस्तकयोः पाठः ।
कुथुममाखायां,-इति स० स० शा पुस्तकेषु पाठः । + तान्याडरथ,-इति मु. पुस्तके पाठः । 5 राजसनेय,-इति मु० पुस्तके पाठः । पा अत्र, नित्यत्वलक्षकः, इति पाठो भवितुं युक्तः । ।। अत्र, यथा,-इति पाठो भवितुं युक्तः । * चाहतवैश्वदेव,- इति म० एस्तके पाठः ।
For Private And Personal