SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। १५२ १०, बा,का। इति । प्रकरणे प्रत्यवायः कूर्म-पुराणे दर्शिनः,* "नास्तिक्यादथवाऽऽलस्याद्योऽमीन्नाधातुमिच्छति । यजेत वा न यज्ञेम स याति नरकान् वहन् । तस्मात्मर्व-प्रयत्नेन ब्राह्मणोहि विशेषतः । आधायाग्रीन विद्धात्मा यजेत परमेश्वरम्" । इति। श्रुतिश्च, कालादि-विशिष्टमाधानं विधत्ते,–“वसन्ने ब्राह्मणोऽग्निमादधीत ; वमन्तोवै ब्राह्मणस्यर्तुः, स्खएवैनमृतावाधाय ब्रह्मवर्चसी भवति, ग्रोभे राजन्यश्रादधीत ; ग्रोमोवै राजन्यस्यतुः, स्वएवैनमृतावाधाय इन्द्रियवान् भवति, शरदि वैश्यवादधीत ; शरदै वैश्यन्यतः, खएवैनमृतावाधाय पशुमान् भवति", इति । श्राश्वमेधिकेऽपि,t “वमन्ते ब्राह्मणस्य स्यादाधेयोऽमिनराधिप ! वसन्तोब्राह्मणः प्रोक्रोवेद-योनिः मउच्यते ॥ अग्न्याधान? तु येनाथ वमन्ते क्रियते नृप ! । तस्य श्रीब्रह्मरद्धिश्च ब्राह्माणस्य विवर्द्धते ॥ क्षत्रियस्यामिराधेयो यौमे श्रेष्ठः स वै॥ नृप! । येनाधानन्तु वै यौमे क्रियते तस्य वर्द्धते ॥ श्रीः प्रजाः पशवश्चैव वित्तश्चैव वलं यशः । * दतिः ,-इति नास्ति स. सो. पुस्तकयोः । + इन्द्रियावी,-इति मु. पुस्तके पाठः ।। अिाश्रमेधिकेपर्वणि,-इति म. पस्तके पाठः। F अन्धाधेयं, इति मु० पुस्तके पाठः । ॥ श्रेष्ठम्य वै,-इति स० सा• पुस्तकयोः पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy