SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५. पराशरमाधवः। [९ख०,या का। तत्र, यजनस्य सृष्टिं प्रयोजनं चाह भगवान्, "सह-यज्ञाः प्रजाः सृष्टा पुरोवाच प्रजा-पतिः । अनेन प्रसविध्यध्वमेष वाऽस्विष्ट-काम-धुक् ।। देवान् भावयतानेन ते देवाभावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवास्यथ ॥ दृष्टान् भोगान् हि वादेवादास्यन्ते यज्ञ-भाविताः । तैर्दत्तानप्रदायेभ्योयोभुते स्तेनएव सः" ॥ इति । तस्य च यजनस्य साविक-राजस-तामम-भेदेन वैविध्यं मएवाह. "श्र-फलाकांक्षिभिर्यज्ञोविधि-दृष्टोयदूज्यते । यष्टव्यमेवेति मनः समाधाय म मात्विकः ॥ अभिसमाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरत-श्रेष : तं यज्ञं विद्धि राजमम् ॥ विधि-हीनमसृष्टान्नं भन्न-हीनमदक्षिणम् । श्रद्धा-विरहितं यज्ञं तामम परिचक्षते" ॥ इति । श्राश्वमेधिके पर्वणि द्विजादि-सृष्टे* यज्ञार्थत्व-प्रतिपादनेन यज्ञः प्रशस्थते, "यजनार्थ विजाः सृष्टास्तारकादिवि देवताः । गावोयज्ञार्थमुत्पन्नादक्षिणार्थ तथैवच ॥ सुवर्ण रजतं चैव पात्री कुम्भार्थमेवच । * द्विजातिहट, इति स० मा० पुस्तकयोः पाठः । प्रसूयते,-इति स. सो. पा. पुस्तकेष पाठः। 1 पात्रं,- इति मु. पुस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy