________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३४४
पराशरमाधवः ।
०,बाका.
इति । हारीतोऽपि,
“मन्त्रार्थ-ज्ञोजपन् जुहत्तथैवाध्यायन् दिजः ।
स्वर्ग-लोकमवाप्नोति नरकन्तु विपर्यये" ॥ इति । गुरु-मुखादेवाध्येतव्यं नतु लिखित-पाठः कर्नव्यः । तदाह नारदः,
"पुस्तक-प्रत्ययाधीतं नाधीतं गुरु-सन्निधौ।
भाजते न सभा-मध्ये जार-गर्भव स्त्रियाः" ॥ इति । अध्ययने वर्जनीयानाह मनुः,
"नाविस्पटमधीयीत न शूद्र-जन-सन्निधौ ।
न निशाऽन्ते परिश्रान्ता* ब्रह्माधीत्य पुन: स्वपेत्" । इति । नारदोऽपि,
"इस्त-हीनस्तु योऽधीते वर-वर्ण-विवर्जितः ।
ऋग्यजुः-सामभिद्दग्धोवियोनिमधिगच्छति" ॥ इति । व्यासोऽपि,- .
"अनध्यायेवधीतं यद्यच्च शूद्रस्य सन्निधौ । प्रतिग्रह-निमित्तं च नरकाय तदुच्यते” ।
॥ इत्यध्ययनाध्यापनयोः प्रकरणे ॥
--
--
* प्रतिश्रान्तो,- इति मु० पुस्तके पाठः ।
(१) वैदिकानां दिविधा अध्ययनप्रणाली वर्तते, हस्तखरकण्ठखरभेदात् ।
तदुभयविधखररहितमध्ययनमत्र निन्द्यते,--इति मन्तव्यम् ।
For Private And Personal