SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ९ख०,वाका०] पराशरमाधवः । खीया शाखोज्झिता येन ब्रह्म तेनोझितं परम्। ब्रह्मदेव म विशेयः मद्भिनित्यं विगर्हितः" ॥ इति । स्व-शाखाऽध्ययन-पूर्सकन्त्वन्य-शाखाऽध्ययनं तेनैवाङ्गीकृतम्, __ "अधीत्य शाखामात्मीयां परशाखां ततः पठेत्"। इति । वेदवद्धर्म-शास्त्रमधीयीत । तदाह गृहस्पतिः, "एवं दण्डादिकैर्युकं संस्कृत्य तनयं पिता । वेदमध्यापयेत् पश्चात् शास्त्रं मन्वादिके तथा ॥ ब्राह्मणोवेद-मूलः स्याच्छ्रुति-स्मृत्योः समः स्मृतः । सदाचारस्य च तथा ज्ञेयमेतत्तिकं सदा ॥ अधीत्यचतुरोवेदान् माङ्गोपाङ्ग-पद-क्रमान्(१) । स्मृति-हीनाः न शोभन्ने चन्द्र-हीनेव सर्वरी” ॥ इति । अत्र, अध्ययनेन पञ्चधा वेदाभ्यामः उपलचितः । तथाच दक्षः, "बेद-खीकरणं पर्व विचारोऽभ्यसनं* जपः । ' तदानं चैव शिष्येभ्योवेदाभ्यासाहि पञ्चधा" ॥ * विचारोध्ययनं,- इति मु० पुस्तके पाठः । तपः-इति स. सो० पुस्तकयोः पाठः । (१) बङ्गानि,-"शिक्षाकल्पोव्याकरणं निरुक्तं ज्योतिघाचितिः। छन्दसा विचितिश्चैव घडोगावेद इष्यते"-इत्युक्तानि। उपाङ्गानि पुष्पसूत्रादीनि । पदोग्रन्थविशेषः यत्र ऋचां पदानि पृथक् पश्यन्ते। क्रमोऽपि ग्रन्यविशेषः यत्र पूर्वपदं त्याला उत्तरपदमुपादीयते । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy