________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४२
परापूरमाधवः।
[१ब,धा का।
इति । विष्णु-पुराणेऽपि,
"उभे सन्ध्ये रविं भूप! तथैवानिं समाहितः । उपतिष्ठेत, तथा कुर्याइरोरप्यभिवादनम् ॥ स्थिते तिठेवजेत् याते नीचैरासीत चासने । शिथ्योगुरोर्नर-श्रेष्ठ ! प्रतिकूलं न मञ्चरेत् ॥ तेनैवोकः पठेद्वेदं नान्य-चित्तः पुरः-स्थितः । अनुज्ञातच भिक्षानमनीयात् गुरुणा ततः ॥ शौचाचारबता तत्र कार्य शुश्रूषणं गुरोः ।
व्रतानि(१) चरता ग्राह्योवेदश्च कृत-बुद्धिना" ॥ इति । कर्मेिऽपि,
"श्राहतोऽध्ययनं कुर्यादीक्षमाणे गुरोर्मुखम् ।
नित्यमुद्धत-पाणि: स्यात् साध्वाचारः सुसंयतः" ॥ इति । स्व-कुल-परम्पराऽऽगताया: शाखायाः पाठोऽध्ययनम् । तदाह वशिष्ठः,
“पारम्प-गतोयेषां वेदः स-परिहण:(२) ।
तच्छाखं कर्म कुर्चीत तच्छाखाऽध्ययनं तथा" । इति । स्व-शाखा-परित्याग एव निषेधति,
“यः स्व-शाखां परित्यज्य पारक्यमधिगच्छति ।
स शूद्रवहिः कार्यः सर्व-कर्मसु माधुभिः ॥ ___ * चासिते,- इति स. मा. पुस्तकयोः पाठः । (१) ब्रतानि तत्तद्देदभागाध्ययने विहितानि गोभिलाद्युक्तानि । (२) सपरिवंहणः अङ्गोपाङ्गतिहासादिसहितः ।
For Private And Personal