SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११०,०का०] पराशरमाधवः। इति। अध्येव्यमाण: शिष्यः, तं प्रति वेदमुच्चारयिष्यन् प्रतिदिनमध्यापन-प्रारम्भे अतन्त्रितः,-"अधीच भोः" इति ब्रुवन्नारभेत, समाप्ता "विरामोऽस्तु"-दति बन्नुपरमेत ; ईश्वर-पौतयो । एतत् सर्वमभिप्रेत्य श्रुतिराह,-"अष्टवर्षे ब्राह्मणमुपनयोत तमध्यापयीत" इति । अत्र प्रभाकरोमन्यते,–'उपनयौत'-इति नयतेरात्मनेपदस्य श्राचार्य-करणे पाणिनिना मृत्रितत्वात्(१) उपनयनाध्यापनयोश्चाङ्गानिभावत्वेनैक-कर्टकत्वात् (२)आचार्यत्व-कामाऽध्यापनेऽधिकारौ। अतएव मनुना स्मयंते, - "उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः । स-कल्यं म-रहस्यञ्च तमाचार्य प्रवक्षते" ॥ इति । एवं चाध्यापन-विधी सुस्थिते सत्यध्ययनस्य पृथग्बिधिर्न कल्पनीयोभविष्यति; विहितस्याध्यापनस्थाध्ययनमन्तरेणानुपपत्तेरध्ययनस्थार्थ-सिद्धत्वात्(३) । ननु, नाध्ययन-विधी कल्पना-दोषोऽस्ति, * अध्येष्यमाणः शिष्यं प्रति,-इति मु० पुस्तके पाठः । नईश्वरप्रीतये,-इति नास्ति शा० पुस्तके । उपनयीत, इत्यादि,स्मर्यते,-इत्यन्तः पाठः स. सो पस्तकयार्भधः। (१) “सम्माननोत्सर्जनाचार्याकरण-ज्ञान-ति-विगणन-व्ययेषु नियः” (१५० इपा० ३६ सू०) इति पाणिनिसूत्रम् । (२) "घवषं ब्राह्मणमपनीयत तमध्यापयोत" इति श्रुत्या तयोरेक कर्ट कत्वमवगम्यते । तच्च तयोरङ्गाङ्गिभावमन्तरेण नोपपद्यते । बाणिभावस्य ह्यभावे इच्छया कश्चित् किञ्चित् कुर्यात् कश्चिञ्च किञ्चिदिति नैककर्टकत्वनियमः स्यात् । तथाचीपनयनमण अध्यापन वाङ्गीति वक्ष्यमाणमनुवचनात् व्यक्तम् । (३) तथाच, बायत्त्या माणवकस्याध्ययनं लभ्यते, इति भावः । 18 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy