________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२०
पराशरमाधवः।
[११०,या का ।
करोति मा परित्याज्येत्येष धर्मः मनातनः" । इति ब्रह्मपुराणे महर्षोणामुक्तिः; तदिदमुक्ति-त्रयं स्त्री-जितस्य * अनिन्दायां वाधितं स्यात्; अच्छिद्र-काण्डे अग्निहोत्र-प्रायश्चिनं वहुधा श्रुतम् ; प्राश्वमेधिके पळणि चैवाप्यम्,
"होतव्यं विधिवद्राजन् ! जामिच्छन्ति ये गतिम् । श्रा-जन्म-मत्रमेतत् स्यादग्निहोत्रं युधिष्ठिर ! न त्याज्यं क्षणमप्येतद्ग्रहीतव्यं द्विजातिभिः । यदैतस्यां पृथियां हि किञ्चिदस्ति चराचरम् । तत् सर्वमग्रिहोत्रस्य कृते सृष्टं स्वयम्भुवा । नाववुध्यन्ति ये चैतनराम्तु तमसाऽऽताः ।
ते यान्ति नरकं घोरं रौरवं नाम विश्रुतम्" । इति; तदेतत्॥ श्रुति-दयमग्निहोत्रावसादस्थानिन्दायां बाध्येत;
"गुरोरनिष्टाचरणं गुरोरिष्ट-विवर्जनम् । गुरोश्च सेवाऽकरणं ज्ञानानुत्पत्ति-कारणम् । प्राचार्य-निन्दा-श्रवणं तहाधस्य च दर्शनम् (१) । विवादश्च तथा तेन ज्ञानानुत्पत्ति-कारणम्"।
* स्त्रीविजयस्य, - इति मु० पुस्तके पाठः। + अत्र, ग्रहीतव्यम् ,-इत्यशुद्धः पाठः सर्वेष्वेव पुस्तकेष ।
दिजादिभिः, इति मु° पुस्तके पाठः । 6 यतन्यं,-इति मु० पुस्तक पाठः। || तदेतत् ---इति मु० पुस्तके नास्ति ।
(१) बाधो बन्धनादि दुःखम् ।
For Private And Personal