________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२०,श्रा का
परापारमाधवः।
१९७
स्थविष्ठमन्न-धातुमपाने स्थापयति अणिष्ठञ्चाङ्गे ममं नयति एषवाव समानोऽथ योऽयं पीताशितमुगिरति निगरति एषवाव सउदानोऽथ ये नैताः शिरा* अनुव्याप्ताएषवाव स व्यानः, इति । अश्मेव पाषाणवदित्यर्थः । वाक्-चक्षुरादीनीन्द्रियाण्यपि प्राणाधीन-व्यापारत्वात् प्राण-शब्देन व्यवहियन्ते । अतएव छन्दोगाश्रामनन्ति ;"न वै वाचान चचूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणइत्येवाचक्षते"-इति । तस्मात् -इन्द्रिय-वायु-समुदाय-रूपं लिङ्ग-शरीरं लोकान्तर-गमन-क्षम(१) प्राण-शब्देन विवक्षितम् । तच, अस्थि-मांसादि-मये स्थूल-शरीरे कर्म-रज्जुभिर्विवध्यते । तच्च वन्धनं तत्तयुगमामादस्थादिषु व्यवतिष्ठते । तथा च, कृच्छ्रचान्द्रायणादिषु अन्नाद्याहार-परित्यागात् । मांसाद्युपक्षयेऽप्यस्थ्यां सहसाऽनुपक्षयात् प्राणनामव्याकुलतेति कृत-युगे तपः सुकरम् । वेतादिषु मांसाधुपक्षयेण प्राणानां न्याकुलत्वात् तपोदुष्करम् ।
* सिरा, इति मु० पुस्तके पाठः । + कृच्छ्रचान्द्रयणाद्यर्थमाहारपरित्यागात्,-इति स. सो० पुस्तकयोः
पाठः।
(१) व्यापकस्यात्मनः लोकान्तरगमनादिलक्षणा क्रिया न सम्भवति,
तस्मात् लिङ्गपारीरलोकान्तरगमनादिनैव तस्य लोकान्तरगमनादिव्यपदेशः। उक्तञ्च, “पञ्चप्राणमनोबद्धिदशेन्द्रियसमन्वितम्। अपश्चीकृतभूतोत्थं सूत्माङ्गंभोगसाधनम्”-इति । शरीरं तावत् त्रिविधं लिङ्गशरीरापरप-यंमूक्ष्म शरीरमेकम् । स्थूलशरीरमपर परिदृश्यमानम्। अन्यच्च कारणशरीरमविद्यारूपमित्ये केषां दर्शनम्, अधिछानशरीरं स्थूलभूतानान्तरभेदसूक्ष्मभूतमयमित्यन्येषाम् । इहच प्रथमोक्तशरीरदयस्योपयोगइति मन्तव्यम् ।
For Private And Personal