________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११०
पराशरमाधवः ।
[१ब.,या.का.
इति । यत्तु तत्रैवोत्रम्,
"कोऽसौ मोक्षः, कथं, केन संभार प्रतिपन्नवान् ।
इत्यालोचनमर्थज्ञास्तपः शंसन्ति पण्डिताः” । इति । सोऽन्यएव तपः-शब्दः, "तप आलोचने" इत्यस्माद्धातास्तदुत्पत्तेः। तत् * तपोऽत्र ज्ञान-शब्देन संग्टहीतम् । 'पर' शब्दः प्राधान्येनानुष्ठेयतामाह। ताई, त्रेतादिषु तपोनाद्रियेत, ते च ज्ञान-यज्ञ-दानानि नाट्रियेरन्,-इति चेन्, न, इतर-व्यायत्ति-रूपायाः परिसंख्यायाः अत्राविवक्षितत्वात् । न खलु, इदानों कश्चिदनुछान-विधिः वकमुपक्रान्तः, येन विधि-विशेषः प्रोत(१) । भविष्यति तु “घट्-कर्माभिरतः” इत्यादिना तदुपक्रमः । युग-सामर्थ्य केवलमत्र निरूप्यते । यथा, 'वसन्ते पुष्प-प्राचुर्य ग्रामे सन्नाप-वाहुल्यम्' -इत्यादि ऋतु-मामर्थ्यम्, तथा कृतादि-सामर्थन तपत्रादिप्राचुर्य विवक्षितम् । अतएव, 'युगे युगे तु मामर्थम्' इति वक्ष्यति। मामर्थ-ज्ञान-प्रयोजनञ्चाभिधास्यते,
'तेषां निन्दा न कर्त्तव्या युग-रूपाहि ते विजाः'।
* तत्र.-इति मु. पुन्तके पाठः ।
(१) विधित्वस्याभावे तविशेषरूपायाः परिसंख्यायाः कुतः शङ्कति भावः ।
तथाहि,-अज्ञात-ज्ञापनं, प्रवृत्त्यङ्ग प्रमिति-जनकं, अभिधा-नामकपदार्थान्तर बोधकपद-टितं वा वाक्यं विधिः । स च त्रिविधः विधिनियमपरिसंख्याभेदात् । यत्रेदमुक्तम् । “विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते" .इति ।
For Private And Personal