________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
बि०,या का ।
नुषचनीयम्? इति । वाक्यादे:(१) प्रथम-मन्त्रेणेव संबन्धात् वाक्यशेषस्य चरम-मन्त्रेणैव संबन्धात् लौकिकाध्याहारः, इति पूर्वः पक्षः । वैदिकाकाङ्गायाः सति सम्भवे वैदिक-शब्दैरेव पूरणीयत्वात् अन्यमन्त्र-संवन्धानामपि पदानां बुद्धिम्यत्वेनाध्याहार्येभ्यः पदेभ्यः प्रत्यामन्नत्वाच, अनुषङ्गाएव कर्त्तव्योनाध्याहारः, इति सिद्धान्तः । एवञ्च मति, प्रकृतेऽपि 'कल्पान्तरे धर्मान् स्मरति'-दति पदत्रयं पूर्वार्दूऽनुषचनीयम् । (२)चतुर्मुखम्तस्मिंस्तस्मिन् महाकल्पे परमेश्वरेण दत्तं वेदं स्मृत्वा, तत्र विप्रकीर्णन् वर्णाश्रम-धमान् मकलय्य स्मृति-ग्रन्थरूपेण उपनिवधाति। तथा च, पितामह-वचनानि तत्र तत्र निवन्धनकारैरुदाहियन्ते । चतुर्मुखस्य स्मृति-शास्त्र-कर्तृत्वं मनुनाऽप्युक्तम,
"इदं शास्त्रन्तु कृत्वाऽसौ मामेव स्वयमादितः ।
विधिवद्यायामाम मरीयादीनई मुनीन्" । इति। यथा चतुर्मुखः, तथैव च स्वायम्भुवोमनुः तस्मिन् तस्मिन्नवान्तर-कल्पे वेदोकधर्मान् ग्रनाति । मनु-ग्रहणेन, अत्रि-याज्ञवल्क्यविष्ण्वादयः उपलक्ष्यन्ते । तदेवं प्रतिमहाकल्प येन येन* चतुर्मुखेन, प्रत्यवान्तर कल्पञ्च तेस्तैमन्वादिभिः स्मृति-प्रणयनात्, धर्मादेः प्रवाहनित्यत्वं सिद्धम् । एतदेवाभिप्रेत्याश्वमेधिके पर्वणि पद्यते,
"युगेष्वावर्त्तमानेषु धोऽप्यावर्त्तते पुनः । धर्मेव्वावर्त्तमानेषु लोकोऽप्यावर्त्तते पुनः” ।
__* अत्र 'तेन तेन', इति पाठीभवितुं युक्तः । (१) वाक्यस्य य यादिभागम्तस्येत्यर्थः।
एतत् पदत्रयस्य पूर्वाई यनुघड़े कृते सति, या वाक्यार्थः सम्पद्यते, समार चतुर्मुख इत्यादिना।
For Private And Personal