________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१.२
पराशरमाधवः।
[११०,मा.का.)
यदर्थ सृष्टि-महारौ संक्षिप्योकी, तत् प्रवाह-नित्यत्वमिदानीमाह,न कश्चिद्देद-कती च वेदं स्मृत्वा* चतुर्मुखः । तथैव धान् + स्मरति मनुः कल्पान्तरेऽन्तरे ॥२१॥
इति । स्मृति-निर्णहां मन्वादीनां स्मृति-कर्तृत्व-दर्शनात् तथैव श्रुति-निर्णेदृ णामपि वेद-कर्तृत्वमाशङ्का निराचष्टे 'न कश्चित्'-दति। न तावत् व्यासेावेद-का, तस्य विभाग-मात्र-कारित्वात् । नापि चतुर्मुखः, ईश्वरेण चतुर्भुखाय वेद-प्रदानात्। नापि जगदीश्वरः, तस्य मिद्ध-वेदाभिव्यञ्जकत्वात् । तर मत्स्य-पुराणे,
"अस्य वेदस्य? सर्वज्ञः कल्पादो परमेश्वरः । व्यञ्जकः केवलं विप्राः ! नैव की न संशयः । ब्रह्माणं मुनयः ! पूर्व सृष्ट्वा तस्मै महेश्वरः । दत्तवानखिलान् वेदान् विप्राः ! अात्मनि|| संस्थितान् ।
* वेदं श्रुत्वा, इति मु° पुस्तके, वेदं स्मती, - इति मु• मू० पुस्तके,
वेदकी, इति से मू० पुस्तके पाठः । + तदेव धर्म, --इति सेो मू० पुस्तके पाठः । + कल्पान्तरान्तरे, इति मु० म०, सो० मू० पुस्तकयाः पाठः । 6 धम्मच,-इति भु. पक्त के पाठः । ॥ विप्रयात्मनि,-इति स० पुस्तके पाठः।
सुस्थितान् , -- इति मु० पुस्तके पाठः ।
शारीरक टीकायां रत्नप्रभायामन्यत्र च व्यक्तम् । रघरव न्यायः प्रवाहस्थानन्तत्वेयि योजनीयः ।
For Private And Personal