________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरंमाधवः।
या०का।
वालखिल्य-कृताये च ये च सप्तर्षिभिः कृताः । वैयाघ्राव्यास-गीनाच विभण्डक* कृताच ये । तथा विदर-वाक्यानि गोरङ्गिरसस्तथा ।
वैशम्पायन-गीताश्च ये चान्ये एवमादयः" । इति । 'सदाचारः',-होलाकोदवृषभ-यज्ञाहीनवुकादिः (१) । तस्य निर्णतारस्तत्तत्-कुल-वृद्धाः । 'च'कारः उतानुक्त-समुच्चयार्थः । उनाः. -मन्वादयोब्रह्मादयश्च स्मृति-शास्त्रकारः । अनुकम्तु,-धर्मः । तम्यापि, पूर्व-कन्पान्ते क्षीणस्योत्तर-कल्पादौ सृरिर्भवति । तथा च, वाजसनेय-ब्राह्मणे सृष्टि-प्रकरणे, प्रजापतिर्मनुष्यादि-पिपीलिकान्तप्राणिनां चतुर्वर्णभिमानि-देवतानाश्च सृष्टिमानाय, अत्युग्रमपि क्षत्रियादिकं नियन्तु समर्थस्य धर्म त्य सृष्टिरानायते । “म नैव व्यभव नत् श्रेयोरूपमत्यमृजत धर्म तदेतत् क्षत्रस्य क्षत्रं यद्धर्मः तस्मात् परं नास्ति” इति । अस्थायमर्थः ;-म प्रजापति-मन्वादि-रूप-धारी अगत्-घटा परमेश्वरः प्रजा: सृष्ट्वाऽपि तन्नियामकाभावात् कृतकृयता-रूपं विभवं नैव प्राप्तवान, ततोविचार्य नियामकत्वेन श्रेष्ठं धर्ममतियवेनासृजत्, इति । अहो ! महदिदं धर्मस्य सामर्थं ; यत् क्षत्रियादिस्ग्रोमारणे समर्थोऽपि धर्माद्भीतः कर-प्रदानाद्यनुप• वितणहक, इति स. सो० पम्तकयोः पाठः । + समाचारो लोके वृषभयज्ञादि नैर्ऋतादि,-इति मु. पुस्तके पाठः। । अत्र, प्रजापति-मनुष्यादि,-इति पाठो भवितुं युक्तः । 5 धमाधीनः -- इति स० स० युस्तकयाः पाठः । (१) होलाका वसन्तोत्सवविशेषः प्राच्यैः क्रियते, उषभयज्ञः उदीच्या,
भाजीनवुकादयोदाक्षिणात्यैः। स्परमिदं मीमांसा-प्रथम-तीयाएमाधिकरणे भाष्यादौ।
For Private And Personal