________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (89) // अथ भक्तमहिमा // धन्यास्त एव सुखिनस्त्रिपुरे भवत्याः पादारविन्द युगलं हि समर्चयन्ति / मान्याः सतां समधियो भुवनैकवन्द्याः, भुमो भवानि भवतापहरा जयन्ति // 3 // हेभवानि हेत्रिपुर ये भवत्याः पादारबिन्दयुगलं समर्चयन्ति ते एव अर्चनफललाभात् समधियः / अत एव सतां मान्याः / शरणागतभवतापहराः। अतएव भुवनैकवन्द्याः। सन्तः सुखिनो धन्याः। अतएव भूमौ जयन्ति // 1 // श्रीदुर्गायैनमः॥ ॐअज्ञाजना जननि विष्णुहरादिदेवान्, विश्वस्थिति प्रलय सृष्टिकरावदन्ति // स्वस्वाधिकारकरणे च तएव सृष्टा देवि त्वया कथमिमे प्रभव स्तदा ते // 1 // हेजननि हे देवि विश्वस्थिति प्रलयसृष्टिकरान् / विष्णुहरादिदेवान् / आदिशब्देन // द्रुहिणेन्द्रभास्करगणेशादिकान् अज्ञाजना वदन्ति स्वमतं स्थापयन्ति / स्तुतिकर्ता / त्वयाएवजनन्या त्रिपुरसुन्दर्या स्वस्वाधिकारकरणे सृष्टा इमे तदा पर्वोक्तास्ते देवाः कथं प्रभवः / कथं सृष्टिस्थिति प्रलयेषुब्रह्मा दिदेवाः / स्वतंत्रकारः / अपितु नैवते / सृष्टिस्थितिसंहार कारिणी त्वमेवेत्यर्थः / त्वत्परतंत्रा स्तेऽपि अतोज्ञानिभिः For Private and Personal Use Only