________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहद्वृत्ति १ लि.
पंचलिंगीस स्वामिना साकमथ व्यहार्षीत् ॥ १९८ ॥ विहारयात्रां पृथगन्यदाऽथ सोऽन्वजिज्ञपच्छ्रीजिनमेष तु व्यधात् । तूष्णीं प्रसप्पन्ति
यतो न निष्फला न वा विपर्यस्तफला जिनोक्तयः ॥ १९९ ॥ विनाऽप्यनुज्ञामगमत् पुरीमसौ श्रावस्त्यभिख्यामथ सूचयन्निव ॥४१॥
व्युत्थानमागामि सहाहतात्मनः समावसत्तत्र च तिन्दुकश्चनम् ॥२०० ॥ आज्ञां विलुप्यायमिहागतोऽतः प्रदर्शयामः फलमस्य
नूनम् । इत्यन्यदाऽनैर्विरसारसायैः पित्तज्वरोऽजन्यत दुःसहोऽस्य ॥२०१॥ स द्यमानः सुतरामनेन साधूंस्ततः सखरमादिदेश । |संस्तारकं भो मम संस्तृणीध्वं व्यापारिषुस्तेऽप्यथ संस्तरीतुम् ॥२०२॥ पप्रच्छ भूयो बत संस्तृतोऽसौ नवेति ते संस्तृत इत्यजल्पन् । अन्ये तु संस्तीयेत इत्यमीषां शृण्वन् स वाचं समदिग्ध मुग्धः ॥२०३।। उदीयमाणं नियमादुदीण यत्क्षिप्यमाणं क्षपितं च कम्मे । चलन्तमर्थ चलितं दिदेश सभासु वीरस्तदवैमि मिथ्या ।। २०४॥ प्रत्यक्षतः सम्प्रति दृश्यते यत्संस्तीर्यमाणोऽपि न संस्तृतोऽयम् । संस्तारकः संस्तृतवत्प्रसङ्गात् संस्तीर्यमाणेऽपरथा शयादेः॥२०५॥ एवं चलत्प्रचलितं क्रियमाणं कृतं तथा । इत्यादा-1 वप्ययं न्यायो भेद एव तयोस्ततः ॥ २०६॥ एवं विनिश्चित्य यतीन् स आदिशत् भो! वीरपक्षो न घटामटाट्यते । उक्तकमेण क्रियमाणक्लृप्तयो दोपलम्भान्मम तन्मतं प्रमा ॥२०७॥ केचिद्वचस्तस्य ततः प्रतीत्य तथेति तच्छ्रद्दधिरे विनेयाः । केचित्तु वीरक्रमपद्मभक्ता अश्रद्दधानास्तदवादिपुस्तम् ।। २०८ ॥ भेदः केन प्रमाणेन स्यात्कृतक्रियमाणयोः । स प्राहाध्यक्षतो दृष्टेरनुमाऽपि प्रदर्श्यते ॥ २०९ ॥ न स्तो विवादाध्युपिते अभिन्ने प्रत्यक्षतो निश्चितभेदभावात् । यदेवमेवं तदनेकपाश्वौ यथा १ व्युत्थानं विरोधाचरणम् ॥
434-%%ACTS
॥४१॥
For Private and Personal Use Only