SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit पंचलिंगी बृहद्वृत्तिः १लि. ॥३७॥ XXMARAL मापुः॥९८॥ संगामकः पश्चिमदिक्तरुण्या मन्ये विलिप्तो हरिचन्दनेन । पतिस्विषां तेजितपद्मरागविडम्बिविम्बं बिभरा भावम्ब बिभरा- म्बभूव ॥ ९९ ॥ चक्राऽऽहयस्रोटिपुटीगृहीतमृणालिकासूत्रलताच्छलेन । एष्यद्वियोगज्वरजर्जरालाश्चकर्ष चक्रया इव जीविताशाम् ॥ १०० ॥ असददेतेऽपि कुतोऽपि केचिदेत्याङ्गिनः सङ्घटिताः कुटुम्बे । तनैषु मुह्येज्ज्ञ इति द्रुमेषु रुतच्छलेनेव जगुर्विहङ्गाः॥१०१ ॥ निर्गखरी सखरमब्जकोशाद्धनायताऽराजत भृङ्गराजी । पत्यौ प्रवासाभिमुखे युरले बद्धा प्रवेणीव सरोरुहिण्याः ॥१०२॥ दिवाकरो मत्त इवास्ततेजास्त्यक्ताम्बरो मण्डलरागभूमिः । द्राग्वारुणीसङ्गरसातिरेकात् पपात विन्यस्तविहस्तपादः ॥१०३ ॥ तिग्मद्युतौ जग्मुपि कालयोगादस्तं जगाम द्रुतमातपोपि । निवोति धूमो हि किमाश्रयाशे तन्नान्तरीयः कचिदाविरस्ति ॥ १०४ ॥ कोशेषु संरोधभिया प्रदोषे सरोरुहेभ्यो बत निस्सरन्तः । शिलीमुखाः स्निग्धनवीनपीनतमिस्रबीजश्रियमुद्वहन्ति ॥ १०५॥ नीलोत्पलेभ्यः किमपि स्फुटेभ्यो निःससुरश्रान्तमलिग्रतानाः । सङ्कुच्य गुप्ता दिनभर्तृभीत्या शङ्कऽन्धकारा जगदञ्जनाय ॥१०६ ।। अर्चिःप्रपञ्चैश्चतुरोऽपि यामान् गरिष्टंकाष्ठस्य विरोचनेन । प्लुष्टस्य धूम्येव त्रिविष्टपस्य श्यामा तमःसंहतिरुल्ललास ॥१०७ ॥ अस्माकमालोकनिकारमुच्चैः प्रकाशयन्ति त्रिजगत्यमूनि । इति प्रकोपादिव लोचनानां गतिं न्यरुन्धनभितस्तमांसि ॥१०८ ॥ तेजोवधाच्छाश्वतमेष वैरी खैरी रवि!ऽस्तमितो न वेति । ज्ञातुं भिया व्योमनि कम्पमानास्तारा निरीयुर्विरला विलोलाः॥१०९ ॥ खतेजसा सङ्घटिता अनेन वयं खरांशुव्यथितौजसोऽपि । इत्यन्धकारस्य सेभाजनाय नभखजू १ अथवा मण्डलानां शुना रागभूमिस्तत्प्रियत्वात् मण्डलं बिम्बं पानगोष्टी च ॥ २ प्रताना इति बहुवचनं प्रतिपद्मं प्रतानविवक्षया ॥ ३ गरिष्टकाष्ठस्य |गुरुतरदिग्वलयस्य विरोचनाबहिरादित्यश्च ॥ ४ आलोकनिकारम् आलोककृतं पराभवं, पराभवप्रकाशकोहि प्रायो द्वेभ्यो भवति ॥ ५ सभाजनं प्रत्युत्पादनम् ।। For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy