________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्मयोऽपि । इतीव यस्मिन्नहसन सुमेरुं भाभिनिषद्यासु सुवर्णपुञ्जाः ॥११॥ अस्मादना कः क्षम आवरीतु भूमिस्पृशां गुह्यमितीवगर्वात् । यसिन्नखर्वा व्यरुचन् समन्ताद्वणिक्पथेषूज्ज्वलचेलकूटाः ॥१२॥ विद्या विदेशेऽभुवतेऽर्थमुच्चैरिति खलास्योत्सवदर्शनाय।
खासिका भूमिमिवावतीर्णा वेश्या वभुर्यत्र च नृत्यमानाः॥१३ ॥ शश्वज्ज्वलबारकहव्यवाहनज्वालाकलापद्रुतिशङ्कया ध्रुवम् । |रराज पातालपुरं विनिर्गतं यद्वप्रमुद्दीप्रसुवर्णनिर्मितम् ॥ १४ ॥ छायासु नो विश्रममाश्रयध्वमितीव पान्थान् पथि मन्थिताङ्गान् ।। यत्राइयन्ति स घना वनान्ता विहङ्गमानां मधुरैर्विरावैः॥१५॥ भुजङ्गलालाविलगन्धसारदुमानुषङ्गादिव जागरूकाः। अमूच्र्छयन् यत्र मनखिनीनां प्रेमप्रकोपं मलयानिलाः साक् ॥१६॥ यत्र स्फुटस्फटिकसङ्घटना बभासे मूर्द्धस्थरत्नकलशा सुरसबराजिः। श्रीवीरनाथमिव नन्तुमधो जगत्या निर्गखरी धृतमणिः फणिमस्तकाली ॥ १७ ॥ यत्राम्बुकेलौ मृगलोचनानामुदश्चदुच्चावचवीचिभङ्गया । सुधारसस्वादुजडास्तडागा रागादुदग्रात्पुलकानिवोहुः ॥१८॥ सुधाकिरी यत्र गिरी गुरूणां श्रुतेरविश्रान्तमतान्तचित्ताः । निःशङ्कमकूरितरोमरन्ध्रव्याजेन मा मुदमुद्वमन्ति ॥ १९॥ मदन्न किश्चिजिनजन्मधामपुरं समस्ति कचनाधुनेति ।। दर्पण यस्तद्गुरुभूरिभेरीमाङ्कारपूरैरिव संततक्ष ॥ २० ॥ सङ्ख्यातिगैर्वेश्रवणैः समाश्रितस्यैकेन सा वैश्रवणेन संगता । पुंभोग्यनानाविधपुष्पकाशिनो न भोगभाक्केवलपुष्पकाशिनी ॥२१॥ बहुकैलासमापनस्सैकं कैलासमापुषी । मुग्धस्याप्यस्य वैदग्धीं नालकाऽऽमुं
निषद्यासु आसनेषु ॥ २ जागरूका अत्युदनाः ॥ ३ खादुजडा मधुरसलिलाः ॥ ४ तत्पुरः संततक्षेति रभत्सयत ॥ ५ वैस्फुटं श्रवणैस्तु साधुभिः पुष्पकाशिनः कुसुमशोभिनः, न भोगभाग् नैव भोगभाजनम् , अथच नभोगा विद्याधरास्तान् भजते, पुरी केवलपुष्पकाशिनी एकविमान विशेषव्यापिनी ॥ ६ बहुकैलाः प्रभूतसुगन्धिद्रव्यविशेषाः ।।
For Private and Personal Use Only