________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खिनः ॥ २१८ ॥ लोकधर्मधुराधुर्यबन्धुरस्कन्धवीक्षणात् । ऋषभेति ध्रुवं नाम पितृभ्यां यस्य निर्ममे ॥ २१९ ॥ मुष्णन् दरिद्रतामुद्रां पुष्णनर्थिमनोरथान् । भगवांश्चारुतारुण्यं कल्पवृक्ष इवासदत् ॥ २२० ॥ सहजासहजन्मभ्यां भाविनीभ्यामिवाभवम् । केवलश्रीविमुक्तिभ्यां सूचयन् सङ्गमोत्सवम् ॥ २२१॥ सुमङ्गलासुनन्दाभ्यां कन्याभ्यां पाणिपीडनम् । व्यधत्तानङ्गमाङ्गल्यं स्वयं मगवतो हरिः ॥ २२२ ॥ युग्मम् ॥ च्युखा कालेन सर्वार्थादात्मानौ बाहुपीठयोः । आद्यायां भरतबाहयौ मिथुनबेन जज्ञतुः ॥ २२३ ।। सुबाहुमहापीठौ तु द्वितीयस्यां महौजसौ । श्रीबाहुबलिसुन्दयौँ द्वन्द्वलेनोद्रभूवतुः ॥२२४॥ क्रमानवालिके अर्हन्नथ ते बालिके अपि । स्वयं वर्णसमाम्नायं गणितं वाऽध्यजीगपत् ॥२२५॥ एवं च-आत्तदीक्षं जिनं जातु केवलालोकशालिनम् । व्रतार्थमुपतस्थाते स्थेम्ने सौख्यस्य ते ततः ॥ २२६ ॥ अथ ते तत्समासाद्य सद्य उत्पाद्यकेवलम् । उत्कण्ठया बहोः कालान्मुक्याः | सख्यमवापतुः ।। २२७॥ दीक्षाक्षणे ययोरहद्वासक्षेपच्छलाद्धवम् । मुक्तिवशक्रियाचूर्णं तूर्ण चिक्षेप मस्तके ॥२२८॥ यत्तयोरप्युदैत्नीत्वं श्रुतीनां पारदृश्वनोः । तन्मिथ्याभिनिवेशोत्र निर्दम्भमुदजृम्भत ॥ २२९ ।। युग्मम् ।। न्यस्ताध्वगव्यथजयद्रथमण्डलस्थकूपोदबिन्दुमिव दूरसमेवमुच्चैः । मिथ्याभिमानकणिकाफलमाकलय्य सद्दर्शनं शुमदृशो विरजीकुरुध्वम् ॥ २३०॥
पीठमहापीठकथा समाप्ता ।।
१ सहजाया अपि भावित्वं व्यक्तरूपेण दृश्यम् ।। २ नवालिके प्रत्यप्रललाटपट्टे ॥ ब्राझीलिपिकपवर्णसमानायम् ।। ३ वासक्षेपेलनेन खहस्तेन भवांस्ते अदीक्षत इति दर्शितम् ॥ ४ दूरसंक्षारं स्त्रीखाद्यशुभफलं च ॥
For Private and Personal Use Only