________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥२०॥
चित् काप्यदर्शीति तुर्यः पर्यनुयुक्तवान् ॥ दूतान् सूतानिवाऽनेकदेशदर्शनपेशलान् ॥२५३॥ युग्मम् ॥ रङ्गविन्यासवैचित्री चित्री-पदा यितजगञ्जनम् ॥ इषीकतूलक्लुप्तेन रेखोन्मेषेण निस्तुषम् ॥२५४ ॥ आलेख्योल्लिखितं रूपं मल्लेदृष्ट्वा स पश्चमः ॥ कस्यारुच्येयम-10
येत्यप्राक्षीचित्रकरं मुदा ॥२५५।। युग्मम् ॥ शोचम् आतिष्ठमानाया चोक्षामखरिणीक्षणात् ।। मल्ल्या जिग्ये क्रुधामाता कांपिल्यं साऽगमत् ततः ॥२५६॥ कम्रान् जयेयम् एतद् वदिति यस्य ध्रुवोर्युगम् । अध्यैष्ट सरचापस्य समीपे वक्रता ध्रुवम् ॥२५७॥ | सर्वेऽपि मुकुलायन्ते मां विना करपीडिताः ॥ इति गर्वादिवोनम्रा यस्याजनि कुचस्थली ॥२५८॥ नूनं दासो यदास्यस्य शुधांशुः। कथमन्यथा ॥ एष छायाच्छलाच्छश्वनिभृतस्तनिषेवते ॥२५९॥ मन्ये यदङ्कपर्यङ्कम् अधिशय्य झपध्वजः ॥ जगच्छरव्यमव्यग्रः शरैः विध्यति कौसुमैः ॥२६० ॥ वलयौवनमीदृक्षं दृष्टं भगवति कचित् ॥ इति पप्रच्छ तां तत्र षष्ठस्तन्नायको नृपः॥ २६१॥ पञ्चभिः कुलकम् ॥ एवं पर्य्यनुयुक्तास्तैः सचिवाद्यास्त ऊचिरे ॥ यथावत् स्वस्खनेतृणामग्रतस्तत्वदर्शिनः ॥२६२॥ मल्ल्याः श्रीदा |मकाण्डादेः पुरतः सर्वमप्यदः ॥ विध्याताङ्गारसंभारचातुरीम् अवगाहते ॥२६३ ॥ अस्या नेत्रसुधासारसाररूपश्रियः पुरः ॥ सर्वा जीर्णघुणोत्कीर्णदारुपाश्चालिकायते ॥२६४ ॥ ततो मल्लिकथां श्रुखा जातरागा नराधिपाः ॥ दूतान् प्रातिष्ठिपन् कुम्भमभि ते मानसैः समम् ।। २६५ ॥ उच्चावचैर्वचोभिस्ते तमयाचन्त तां बलात् ।। अर्थिनो हि पराचीना वाच्यावाच्यविवेचने ॥२६६ ॥ श्रवःकटुवचः शल्यप्रवेशनमिषाद् ध्रुवम् ॥ विद्धावपि पुनः कौँ विध्यतः परिषत्सदाम् ॥२६७ ॥ स तान् निष्कासयामास
॥२०॥ १ दूतान् मागधान् ।। २ इषीकतूलं, चित्रकरकूर्चिका विशेषः ।। ३ निस्तुषं रङ्गचित्रकृदादि सामन्यानिर्देशं, चोक्षेति नामा ॥ ४ सर्वेऽपि पुष्पादयः ॥ ५ विध्यत इति सच्छिदौ कुर्वतः ।। अथवा पीडयत ॥
RSSSSSSSORS
For Private and Personal Use Only