________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥१९॥
CASANSOMES
जातवेदरया इव ॥चन्द्रकान्तशिलाः कान्ता यत्र सस्पन्दिरे जलम्॥२२४ाशङ्केविशन्नृपच्छायाच्छद्मना यत्र भित्तिषु ॥ गोपयन्तः बृहद्वृत्तिः स्वमस्वनाः कौतुकादागता बभुः॥२२५॥ यत्र सर्वर्तुपुष्पर्द्धिवर्द्धितोद्यानवम्मिते ॥ प्रतिखमृतुदेवीनां युगपत् साध्यसिद्धये ॥२२६॥ बहिर्वासगृहा नूनं निर्मिताः प्रतिकम्मिताः । षडन्तर्गर्भनिलयाः वर्णेष्टकचिता बभुः ॥२२७॥ युग्मम् ॥ खेलन्मणिप्रभाजालं| तदन्तर्जालमन्दिरम् । कामुकानां दृशो बन्धुं यत्र जालमिवाऽऽदधे ॥२२८॥ कथम् अस्मद्गृहम् अमी विशन्ति विवरैरिति ।। क्रुधाक्षिप्ता उपपतय इवार्ककरा जालमणिकरैध्रुवं यत्र ॥२२९॥ मध्ये जालगृहम् असावचीकरत् खां हिरण्मयी प्रतिमाम् । सच्छिद्रमस्तकच्छिद्रनिहितहेमाम्बुजपिधानाम् ॥ २३० ।। जीवन्तीमिव यां वीक्ष्य निर्मित विश्वकर्मणा । जानुस्थास्तु वपुर्वल्लिमल्लिनेदीयसी पुरः ॥२३१॥ मल्लेरेषा प्रतिकृतिः किमस्या मल्लिरेव किम् ॥ इति संदिघवत्कृता व्यत्ययानिरचिन्वत ॥२३२॥ युग्मम् ॥| यां पीयूषम॒तिव्याजात् खेदस्यन्दिभिरस्पृशत् ॥ रिरंसयेव यामिन्याः कामुकः कोमलैः करैः ॥२३३॥ स्वभोज्यात् साक्षिपत् तस्यामेकं कवलम् अन्वहम् ॥ रन्ध्रेण शिरसः स्नेहादिव यापयितुं तेनुम् ॥२३४॥ क्षिप्त कुक्षावपद्वारा खादीयोऽपि किमित्यहम् ॥ इतीव तद्गतं भोज्यं पूतिगन्धानुबन्ध्यऽभूत् ॥२३५॥ गन्धस्कन्धः प्रसर्पश्च तस्य दिक्षु निरङ्कशः॥ आश्रयोत्कर्षणायेव खस्याद्वैतम् अदर्शयत् ॥२३६।। इतश्च ॥ लोलन् मांसलसौरभ्यतरङ्गितदिगन्तः ॥ प्रसूनैः स्यूतमन्यूनैः खरसेन विकखरैः ॥२३७॥ नवी-18 ॥१९॥
यापयितुं सुखेन वर्तयितुमिव ॥ २ तर्नु खसादृश्यादात्मशरीरम् ॥ ३ अपद्वारा द्वारान्तरेण तथा प्रदेशोहि गृहादावपि महतेऽपमानाय इति वैवर्ण्य मिव | विकृति दौर्गन्यं भेजे ।। ४ आश्रयो भोज्यं गुणोत्कर्षेण हि गुणिन उत्कर्षव्यकिः ॥ ५ तरङ्गितानि व्याप्तानि ॥
For Private and Personal Use Only