________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
पंचलिंगी
बृहद्वृत्तिः १ लि.
॥१७॥
SMSAROSCAMSARILALSONG
रजखिभिः । पौरिति क्रुधा ताम्रावभूतां तत् क्रमो ध्रुवम् ॥१६४॥ तस्याः पादो ध्रुवं पद्मो सुस्राव कथमन्यथा । ताभ्यां दीप्तनखश्रेणिशोणद्युतिमिषान्मधु ॥ १६५॥ मञ्जीरौ शिञ्जितव्याजाद् अस्या जंघान्तचुम्बिनौ । आश्रयोत्कर्षदर्पण स्वमवर्ण| यतामिव ॥ १६६ ॥ एतस्या बिभरांचके जंघाजुगलमुज्ज्वलम् । अधोमुखीकृताम्भोजनालद्वितयविभ्रमम् ॥१६७॥ सच्छिद्रखाद् | गजकरा वृत्ताः पीना अपि क्रमात् ॥ नीरन्ध्राभ्यां तदूरुभ्यां जिताः कास्यम् इवागमन् ॥१६८॥ खात्रलेन निःसाराः सृष्टाभ्यां सत्तमाणुभिः । रम्भास्तम्भास्तदुरुभ्यां स्पर्खेरन् कथमुद्धताः ।।१६९॥ भाविनस्तीर्थसौधस्य प्रारम्भकदलाग्रिमी । साक्षात् स्तम्भा| विवाऽदम्भावूरू तस्या विरेजतुः ॥१८०॥ गङ्गापुलिनसधीची रेजेऽस्या जघनस्थली । ब्रह्मचर्यश्रियो नूनं शय्या जय्या न केनचित 8॥१७१ ॥ व्यराजद् उपसंवीता तन्नितम्बतटी ध्रुवम् ॥ तरुणिम्नो गुणनिकाशाला जवनिकावृता ॥१७२ ॥ नितम्बबिम्बम्
एतस्या वभार गरिमास्पदम् । कन्दप्पविजयव्यञ्जिप्रशस्तिफलकश्रियम् ॥१७३ ॥ दिद्युते रसनादाम तस्याः श्रोणितटे ध्रुवम् ॥ रक्षावलयमुद्दामस्तोम्नं लवणिमश्रियः ॥१७४ ॥ रोमराजी रराजास्याः स्निग्धामधुकरीसखी । नाभिनिर्झरनिःस्पन्दा प्ररूढे| वाङरावली ॥१७५॥ रोमालिरशुभत् तस्याः सज्ञानेनान्तरुद्युता । शङ्के रुचिमता सान्द्रा तमोलेखा प्रवासिता ॥ १७६ ॥ अगाधा नाभिरेतस्या भ्रेजे कचन दैवतः ॥ त्रुव्यल्लावण्यसन्धायै मन्ये तद्रसकूपिका ॥ १७७ ॥ तन्नाभिम् अभितः शक्ता मुक्ताली भाखराऽरुचत् ॥ शिखेव शुक्ललेश्यागेर्नाभिरन्ध्रेण निर्गता ॥१७८ ॥ लौल्याभावाद् ध्रुवं तृप्तेरेषा दुःखाकरिष्यति ॥ न
१ पुलिनसध्रीची तत्सदृशी ॥ ब्रह्मचर्येति एवमन्यत्रापि शान्तरसानुगतत्वेन प्रायो वर्णनम् ॥ २ उपसंवीता आस्तृता ॥ ३ उद्दाम उद्भटनियन्त्रणम् ॥ ४ त्रुष्यत् क्षीयमाणम् ॥
G
॥१७॥
For Private and Personal Use Only