________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
P१५०॥ मल्लीति मल्लिकामोदसोदरोच्छसितश्रियः॥ दोहदानुगुणं तस्याः पितरौ नाम चक्रतुः ॥१५१॥ मन्ये यत्सेवया
विद्या लेभिरे कोटिमात्मनः ॥ अन्यथैक्ष्यं न मालिन्यं कथम् आसाम् इयच्चिरम् ॥ १५२ ।। अध्यैष्ट प्रचलजिह्वाच्छलाद् यस्या मुखे स्थिता । नव्यसंस्कारसौरभ्यलोभाद् इव सरस्वती ॥ १५३ ॥ न केवलं शिशुखेपि मल्लिमल्लिरिवाऽमृता । तल्लावण्यमहो | यावत् तल्लावण्यम् इवारुचत् ॥१५४ ॥ अथ सा यौवनं प्राप समं पितृमनोरथैः । कादम्बिनीव वर्षास साध कर्षकसपणेः ॥१५५॥ तसिंश्च सुतरां तस्याः सौभाग्यश्रीयंजृम्भत । उन्मीलत्यन्यदापीन्दोर्योत्स्ना शरदि किं पुनः॥१५६ ॥ जञ्जरपि रागजागरसदसि वयस्यङ्गविभ्रमास्तस्याः । चिंत्रमनवमरसभुजो विशङ्कम् अङ्कुरितनवमरसाः ॥१५७॥ तथाहि ।। रेजुः पादनखास्तस्या नव्यत्वेन बलीयसा । वैराग्येन प्रणुनस्य रागस्य स्तबका इव ॥१५८॥ श्रेजे तस्या नखश्रेणिर्वाण्या मणिललन्तिका । | स्यात् त्रुटिखा पदोः सस्ता प्रोयितुं प्रकृतीद्रुमाः ॥१५९ ॥ चकाशे नखलेखाऽस्याः पादयोः पाटला ध्रुवम् । पाटला कलिका| माला नमच्छक्रशिरच्युता ॥१६०॥ नूनम् आकर्षमत्रोऽस्याः क्रमाभ्यां शिक्षितो यतः । आजहे राजहंसानां मानसेऽप्यपुषां गतिः |॥१६१॥ अप्यमोषणधुर्याभ्यां तत्पद्भ्यां जाग्रतामपि । करीन्द्राणां जनाध्यक्षम् आश्चर्य मुषिता गतिः॥ १६२ ।। शङ्के मम वृथा जन्म तवास्येन्दोविनेक्षणात् ॥ तत् त्वं दर्शय देवीति पद्मश्रीस्तत्क्रमौ श्रिता ॥१६३ ॥ कथं तावुपमिन्वन्ति नीरजस्को
१ संस्कारस्य सौरभ्यम् अतिशयः ॥ २ अनवमरसभुजः, प्रधानशृङ्गारमाधुर्यादिभ्यो जिनोऽपि नवमो रसः शान्तरसः यौवने हि प्रायः सर्वस्यापि शृङ्गारानुगता एव अवयवाः स्युस्तस्यास्तु शमाभिव्यञका अपीति चित्रम् ॥ ३ ललन्तिका प्रलम्बमानप्रैवेयकविशेषः ॥ ४ अमोषणेति अचौराभ्याम् अवयवावयविनोः कथंचित् अभेदाद् इयमुक्तिः ।। ५ तम् आस्येन्दु, पद्मश्रियश्चन्द्रावलोकनाऽक्षमत्वात् तत् वकम् आश्रयणम् ॥
AACCOUNDCLOCAL
For Private and Personal Use Only