________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%
बृहद्धत्तिः
%%
पंचलिंगी INमासि फाल्गुने ॥ १३५॥ बद्धतीर्थकरखोऽपि ततस्तस्या असो सुरः ॥ स्त्रीत्वेन गर्भम् अध्यास्त दुर्वारा कर्मणां गतिः ॥१३६॥
युग्मम् ।। अविद्राणांगसौभाग्या निद्राणा सा धिया निशि चतुर्दशजगत्वाम्यम् अपत्यस्य जनिष्यतः ॥१३७॥ अञ्जसा व्यञ्जतो ॥१६॥
मञ्जून महास्वप्नांश्चतुर्दश ॥ प्रतिबिम्बवदादर्शेऽदर्शन्मधुरदर्शना ॥ युग्मम् ॥१३८॥ शङ्केऽभ्युदयलाभेऽपि नोत्तानाः स्युर्महत्तमाः। इति मात्रुदरे गर्भो गौरवं नोदपीपदत् ॥ १३९॥ सङ्कटस्थोऽपि यद् गर्भो नाबाधिष्ट स्वम् आश्रयम् । सर्वावस्थासु कस्यापि नोपतापाय सत्तमाः ॥१४० ॥ जज्ञ कुसुमशय्यायाम् अस्या आरोहदोहदम् । व्यञ्जत्सर्वाङ्गसौरभ्यं गर्भगस्य प्रसूनवत् ॥ १४१॥ | गर्भो यथा यथैधिष्ट सौन्दर्यश्रीस्तथातथा ॥ नूनं तद्पसंक्रान्त्या मातुरङ्गेष्ववर्द्धत ॥ १४२ ॥ अथाश्विन्यां सहः शुक्लैकादश्यां| | पूर्णदोहदा ॥ अमृत जिनम् आश्चर्य कन्यात्वेन प्रभावती ॥ १४३॥ शङ्केऽधिकं तनुयोतिर्योतिते सूतिकागृहे । हिया जन्मक्षणे 8| यस्या नाद्युतन्मणिदीपकाः ॥ १४४ ॥ या तदाऽजीजनत् सौख्यं नारकाणामपि क्षणम् । तेषामिवासितुं दुःखाद्वैतवादं दुरुत्तरम्
॥१४५॥क सख्यं मे पुनर्भावि स्त्रीतीर्थकरकर्मणा । इति ज्ञानत्रयी गर्भाद् आरभ्यौज्झद् ध्रुवं न याम् ॥ १४६॥ मालिन्याद् दृकप्रसादं नो न नेत्रीय विधास्यति । इतीव यजनावाशा अभूवन्न रजःस्वलाः ॥ १४७॥ सौगंध्यं नोपि यच्छति याचनायेव कोमलाः ॥ यां जनौज्झितनिःश्वासद्वाराऽसेवन्त वायवः ॥१४८॥ निर्ममुः सूतिकर्माऽस्या दिक्कुमार्योऽतिगौरवात् । स्त्रैणेन सगो-| त्राया आर्हन्त्याप्त्याऽऽहृता इव ॥ १४९ ॥ अहो जातु वयं न स्त्रीजिनं स्लपितपूर्विणः । इतीवाऽत्यादराद् इन्द्रर्या मेरावभ्यषिच्यत १ सप्त जगन्ति ऊर्व सप्त चाधः इति प्रसिद्धया चतुर्दश ॥२ उत्तानाः, दर्शितखोत्सेकाः ॥ ३ रजखला हि योषितो न राजादिभिर्वीक्ष्यन्ते इति स्थितिः॥
%%%%%
GALACKALAMSALM
%
%
%%%
For Private and Personal Use Only