________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
कल्पद्रवः सृष्टा अर्थिनाम् इष्टमात्रदाः ॥१२१॥ वीरश्रियं करे धत्ते वृद्धामपि न मां भवान् । नव्यामपीति रुष्टेव यत्कीर्तिरेऽतो | | ययौ ॥१२२ ॥ प्राप्तकालैरुपायैर्यश्चतुर्भिरविनश्वरैः । व्यजेष्ट भ्रातृभि त्रैरजाताऽऽरातिवद् दिशः ॥ १२३ ॥ त्याज्यं त्रिवर्गमव्यग्रमना माहाकुलीनवत् । यथावद् यः प्रयुञ्जानः परलोकम् असादयत् ॥१२४॥ यः शक्तित्रयम् आसाद्य प्रभविष्णुबलानुगः। क्रमत्रयं यथाविष्णुबलिदर्पमखण्डयत् ।।१२५ ॥ प्रभावतीव भक्ताऽभूत् तस्य देवी प्रभावती । पिनद्धभूषणबातोद्यन्माणिक्यप्रभावती ॥ १२६ ॥ लावण्यस्रोतसोऽमुष्या दृग्दोषो मा स्म भूदिति ॥ यां हीः सर्वाङ्गसंव्यानं भेजे कारयितुं ध्रुवम् ॥ १२७॥ | अन्योन्यविटसंभोगाद् बन्धकीभिः कदर्थितौ । शंके शीलाऽन्वयौ भीत्या यां शरण्याम् उपेयतुः ॥१२८॥ भुजङ्गरञ्जनायोच्चैर्व्यअनीभिः प्रगल्भताम् । पण्यस्त्रीभिरिवोत्प्राप्तं शालीन्यं पर्युपास्त याम् ॥ १२९ ॥ शश्वत् क्लुप्तालिसंलापानप्रत्यासीदतोऽपि या ।
आललापान्यपुंसस्तत्संस्कारानुद्भवादिव ॥१३०॥ यथा चन्द्रिकया चन्द्रो मुक्तया शुक्तिसंपुटः ॥ तडागः पुण्डरीकिण्या तथा | रेजे तया नृपः ॥ १३१ ।। शक्तः पानायितुं कस्तां भवित्री या जिनप्रमः । कः कल्पद्रुसवित्र्या हि मेरुभूमेःक्षमः स्तुतौ ॥१३२।। | या न स्वं दर्शयामास ब्रह्मचर्यभृतामपि । रिरंसाजननेनैषां व्रतभङ्गभयादिव ।। १३३ ।। ततस्तां भूभुजस्तस्य कान्तां विश्वंभरामिव । अवतो विषयस्निग्धां दिवसा अतिचक्रमुः ॥१३४।। अश्विनीम् उपभुञ्जाने कुमुदाकरवान्धवे ॥ तत्करैः परिपूतायां चतुर्यो
१ परलोकं शत्रुजनम् , जन्मान्तरं च ॥२ असाधयद् , वशीचकार निरवर्तयत् ॥ ३ बलं सामर्थ्य, बलभद्रव, बलिनां समर्थानां बलेदानवस्य च विशेषस्य ॥ ४ प्रभावती च, उदयनृपपनीच, अथवा प्रभौ खामिनि अतीव अत्यन्तम् ।। ५ संव्यानम् अच्छादनम् ॥ ६ अन्वयोऽत्र गोत्राचारो द्रष्टव्यः ।। ७ उत्प्राप्तम् उपहसित मिव ।। ८ शालीन्यं सलज्जता ॥ ९ तत्संस्कारः, पुरुषान्तरालापभावना, तदनुद्भवो जन्मान्तरेऽपि तदननुभवात् ॥ १. विषयाः शब्दादयो देशाश्च ॥
For Private and Personal Use Only