SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥१३॥ -DOAXXXC वाचः पुष्कराकराः॥४२॥ सूनुं राज्ये व्यवस्थाप्य कोशं कुशलधामनि । दीनादीनामनिन्द्येन दानेनापाद्य नन्द्यताम् ॥४३॥॥ स व्रतं तैः सहादत्त भवभीरुर्महादरात् । निमज्यन् को न गृह्णाति गाढं फलकमम्बुधौ ॥४४॥ युग्मम् ॥ द्विधाशिक्षामशिक्षन्त क्षन्तारः स्थविरान्तिके । सर्वेऽपि ते किमस्त्यन्यत् करणीयं तपखिनाम् ॥४५॥ अभूवन् सर्वनिर्वामष्टाङ्गीमपि बिभ्रतः।। एकादशाङ्गभाजस्ते श्रुते चित्रमधीतिनः ॥४६॥ तुल्यं तपश्चरेमेति संलापोऽजायताऽन्यदा । तेषां मैत्री ह्यवस्थासु सासु सदृशी सताम् ॥४७॥ अस्त्वेवमिति सर्वेऽपि प्रश्रिताः प्रतिशुश्रुवुः । नहि विप्रतिपद्यन्ते धर्मकर्मसु तादृशाः॥४८॥ ततस्तपस्यन्तांतेषां गीतार्थोऽपि महाबलः । कर्मशक्तेरचिन्त्यत्वादेवं जातु व्यचिन्तयत् ॥४९॥ गृहेऽहं नायकोऽभूवमेते मदनुनायकाः । एतानतिशये नो चेद् उभयेषां किमन्तरम् ॥५०॥ चतुर्थमुररीकृत्याऽपरेषां पुरतस्ततः । उत्कर्षयितुमात्मानं षष्ठं स निरवीवहत् ॥५१॥ ततो यदेतरे षष्ठमन्वतिष्ठस्तदा परः । कष्टमष्टममाधत्त लाभाधनभिलाषुकः ॥५२॥ अहो अभिनिवेशोत्र नृणां हृदि विजृभते । येनापकर्ण्य देहं स्वमुपयन्ति सुदुष्करम् ॥ ५३॥ आनुपूर्व्याऽनया कुर्वस्तपस्यां दुष्करामपि । स मिथ्याभिनिवेशेन मिथ्यात्वावन्ध्यहेतुना ॥ ५४॥ स्त्रैणनिर्वर्तकं कर्म बबन्ध निरुपक्रमम् । अन्यथानुपपत्येव स्त्रीतीर्थाश्चर्यनिर्मितेः ॥५५॥ युग्मम् । तदानीं च स मिथ्यात्वं सास्वादनमथापि वा । प्राप स्त्रीवेदबन्धस्य नूनं तत्प्रत्ययखतः ।। ५६ ॥ व्यावर्तिष्ट ततस्तेन सम्यक्त्वं प्रतिपन्थिना। | ओकोरोधादिवानादिसंस्तुतेन बलीयसा ॥५७॥ अहो मिथ्याभिमानस्य महिमा यदमूमुहत् । असौ तमपि हृत्पूरो भ्रमयत्यथवा न १ अष्टाङ्गीं शीर उदर पृष्ठ बाहुद्वयोरुद्वयलक्षणामिति विरोधपरिहारः ॥ २ प्रश्रिताः सप्रणयाः ॥ ३ ओकोरोधादिवेति, शत्रुभूताभिनिवेशेनाऽऽवासहास्य व्यापनादिव ॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy