________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
%AAAAAAACAUSTRANGESCORRC
तन्महिम्नैव तत्तत्तिर्यङ्मनुष्यादिकायेषु तदीयमनःसहकृतेषु च तत्तत्फलमुपभुक्तां किमस्य रण्डान्तःकरणसहकृतापूर्वानेककायनिर्माणप्रयासेन, खस्वस्वामिभिरेव तेषामधिष्ठानान्न तु तेषु तस्योपभोग इति चेन्न, वस्खाम्यधिष्ठानेऽपि तेषां व्यन्तरादिभिरधिष्ठानोपलम्भात् व्यन्तरशक्तितश्च योगमहिम्नोऽचिन्त्यत्वात् , तसादस्याऽऽगमस्य प्रागुक्तमेव तात्पर्य नतु एतदिति, एवं च आगामिबुभुक्षानुत्पादकस्य स्निग्धमधुरभोजनादेः प्रागुत्पन्नतव्यावृत्तिसामर्थ्यवत् ज्ञानतपस्यादेरनागतकर्मानुत्पादकस्यापि संचिततदुच्छेदेऽपि सामर्थ्यमेष्टव्यं, तमात्सम्यग्ज्ञानचारित्रादिख आत्यन्तिककर्मक्षयहेतुरिति खीकर्तव्यं, तथा चार्ष “नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो । तिण्हं पि समाजोगे मोक्खो जिणसासणे भणिओ"||१तत्किमिदानी कर्मक्षयं प्रतिभोगोकिंचित्कर एव, तथा सति "पुबिंदुविणाणं वेअइत्ता मोक्खो नत्थि अवेअइत्ता" इत्याद्यागमो व्याहन्येत इतिचेन्न, प्रारब्धफलकतिपयकर्मविगमं प्रति किंचित्करत्वेऽपि तत्काले विषयाभिष्वङ्गाध्यिवसायादिहेतुकापूर्वभूरिकर्मार्जननिवन्धन-18 तया आत्यन्तिकसकलकर्मक्षयाकारणत्वेन तत्त्वतस्तस्याकिंचित्करत्वात् 'पुबिंदुविणाणमित्याद्यागमस्तु, निकाचितानि तपोध्यानाद्यनिर्जीर्णानि च कर्माणि उद्दिश्य समाधेयः, तन्निर्जीर्णानां तेषां वेदनं विनापि मुक्तिसंभवात् , अत एवास्यागमस्याग्रिम वाक्यं तवसा वा झोसइत्ता' इति, यदपि गुणगुणिनोर्मेदात् न बुद्ध्याधुच्छेदेऽपि आत्मन उच्छेद इति, तदप्यचारु, ज्ञानात्मनोरत्यन्तं भेदेऽहं जानामीत्यादिसामानाधिकरण्यं न स्यात् , मम ज्ञानमितिभेदेनैव प्रतीतिः स्यात्, समवायात्सामानाधिकरण्यमिति चेन्न, तस्य निषेधात् , तस्मात्तयोर्भेदाभेदोऽभ्युपगन्तव्यो येन सामानाधिकरण्यभेदप्रतीत्योरुभयोरपि संगतिःस्यात्, ननु आत्मनो ज्ञानमत्यन्तं भिद्यते सत्यपि तसिन् तस्योत्पादविनाशवत्वात् , यस्मिन् सत्यपि यदुत्पादविनाशवत् तत् ततोऽत्यन्तं
For Private and Personal Use Only