________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्धत्तिः
॥१७४॥
तथाखेऽपि भोगमन्तरेणापि क्षयोपपत्तेः, अत्र च कर्मक्षयं आत्यन्तिकोऽभिमतो न चासौ भोगात् जायते ध्यानादिजन्यत्वेन | तस्योपगमात् ततोऽनुपभोगरूपतपस्यादिहेतुकतत्क्षयच्याप्तत्वात् कर्मत्वहेतोविरुद्धोऽपि, सोपाधिकत्वादप्रयोजकश्चायं, नहि कर्मत्वात् प्रारब्धफलकर्माणि भोगात् क्षयं नीयन्ते, किं तर्हि अकृतप्रायश्चितत्वात् , तथाच विवादाध्यासितानि कर्माणि अपि भविप्यन्तीति विधेयप्रायश्चित्ततया भोग विनापि क्षेष्यन्ति को विरोधः, उपाधिलक्षणं चात्र स्वयमेव योज्यं, नामुक्त क्षीयत इत्याद्यागमोऽपि अकृतप्रायश्चित्तं तदधिकृत्य योजनीयं, न तु अविशेषेण क्षीयन्ते चास्येत्याद्यागमस्य तु प्रकर्षप्राप्तविहितानुष्ठानतपोध्यानादिनिवर्त्यघातिकर्मक्षयादर्हत् स्वात्मलक्षणपरापरात्मदर्शनोत्पच्या वस्तुतस्तयोः कार्यकारणभावेऽपि यदि तद्दर्शनस्य नैरन्तयोंत्पादातिशयविवक्षया हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन चरमं रमणीवल्लभलोचनविषयं त्वया भजते ति, न्यायेनातिशयोक्त्या पौर्वापर्यविपर्यः कल्पित इति तात्पर्य, तदाऽस्मदनुकूलमेव अत्राविप्रतिपत्तेः, यदि तु श्रूयमाण एवार्थो विवक्षित स्तदाऽनुपपन्नः, घातिकर्मक्षयं विना परमात्मादिसाक्षात्कारासिद्धेः, अथ परात्मादिदर्शनानन्तरं भवोपग्राहिकर्मक्षयो मतस्तदा यथाश्रुतमपि संगच्छत एव, अस्माभिरपि एवं खीकारात् , यच्चोत्पन्नतत्त्वज्ञान इत्यादिनाऽस्य तात्पर्यान्तरमुपवर्णितं तन्न घटते, कामोत्कलिकारूपरागं विना तत्तत्कायनिर्माणेन योषिदादिभोगानुपपत्तेः, रागादीनां च परस्परनान्तरीयकतया तद्वतो जीव-12 न्मुक्तत्वासिद्धिप्रसङ्गात्, रण्डान्तःकरणसंयोगोऽपि कायेषु वैफल्यात् नोपपद्यते, अदृष्टोपग्रहीतानामेव मनसामात्मसंयोगेन ज्ञानाद्युत्पादनसामर्थ्यात् , जीवन्मुक्तादृष्टोपग्रहात् तेषां तत्तत्कायेषु ज्ञानाद्युत्पादकत्वमितिचेत् , न, कर्मनिर्मुक्तात्मोज्झितत्वेन दग्धबीजकल्पतया तेषां तदुपग्रहासंभवात् , अन्यदीयादृष्टेन चान्यदीयमनसां तदयोगात् , योगचिमहिम्ना तद्योग इतिचेत् , तर्हि ।
॥१७४॥
For Private and Personal Use Only