________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagersuri Gyanmandie
दृष्टान्तः, न तृतीयः, बुद्धथादिभ्यो विजातीयानामिच्छादीनामपि उत्पाददर्शनात् नियमेन सजातीयोत्पत्यभावात् , स्मृत्यादीनां |च भवदभिप्रायेण प्रमाणतया विजातीयानामपि सम्यग्ज्ञानादिभ्यः संस्कारोबोधद्वारेणोत्पत्त्युपलम्भात्, पाकजपरमाणुरूपादीनां चैवंविधसन्तानरूपेण उत्पत्तावपि भवताऽत्यन्तोच्छेदानभ्युपगमात्, संसारस्य चैवंरूपस्यापि अत्यन्तोच्छेदाभावात् अनैकान्तिकोऽपि, न च प्रलये तस्योच्छेद इतिवाच्यं, तस्य प्रागेव निरासात् , यदिवा नित्यानां बुद्धयादीनां मुक्तावत्यन्तोच्छेदः । साध्यते तदा सिद्धसाधनम् , अस्माभिरपि तत्र तेषां तत्स्वीकारात्, यद्यपि तत्त्वज्ञानात् मिथ्यानानायुच्छेदक्रमेण इत्यादि | तदपि न युक्तं, भवतु तत्त्वज्ञानान्मिथ्याज्ञानोच्छेदस्तसाद् दोषोच्छेदस्तसाच्च धर्माधर्मयोरनागतयोरनुत्पत्तिः संचितयोस्तु तयोः कथं तसादुच्छेदो भोगादेव भवद्भिस्तत्क्षयोपगमात् , तथाच तत्सिद्धयै प्रयोगः, अलब्धवृत्तीन्यपि कर्माणि भोगादेव क्षीयन्ते कर्मत्वात् प्रारब्धकर्मवत् इति, नाभुक्तं क्षीयते कर्मकल्पकोटिशतैरपि, इत्याद्यागमस्याप्येवमेव श्रवणाच, अथ "क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इत्यागमान्तरात् भोगं विनापि परापरात्मदर्शनादेव कर्मणां क्षयोपपत्तिरितिचेन्न, अस्थापि अनागततदनुत्पाद एव चरितार्थत्वात् , यदि वा अस्थायमर्थः-उत्पन्नतत्त्वज्ञानो जीवन्मुक्तः कदाचिदात्मनो भूयांसं कर्मराशिमवगम्य योगद्धिसामर्थ्यात् तत्तनिकायभोग्यकर्मफलानुगुण्येन रण्डान्तःकरणभाजस्तांस्तान् कायान् निर्माय तत्तत्फलोपभोगेन असंख्येयजन्मविपाकिनमपि कर्मजालं युगपदेव क्षिणोतीति भवसिद्धान्ताभिप्रायेण भोगादेव संचितयोस्तयोः क्षयो न तु ज्ञानमात्रादिति, अस्तु तर्हि एवमितिचेन्न, अपसिद्धान्तात् , अदत्तफलानामपि कर्मणां प्रायश्चित्तेन भवतापि क्षयोपगमात् इतरथा प्राय|श्चित्तविधेस्तत्प्रतिपादकग्रन्थानां च वैयर्थ्यापत्तेः, एवं च प्राच्यप्रयोगे कर्मत्वादिति हेतुरनैकान्तिकः, प्रायश्चित्तशोध्यानां तेषां|
For Private and Personal Use Only