________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रा
पंचलिंगी
बृहद्भुत्तिः
५ लि.
॥१७३॥
कत्वेनाहितपरिहारार्थैव मुक्त्यर्थिनां प्रवृत्तिर्भविष्यति, ननु मा भूदनुमानाद् विज्ञानमानन्दं ब्रह्मेत्याद्यागमादेव तत्सेत्स्यति, आगम एव च मुक्तयर्थिनां प्रायोऽतीन्द्रियार्थेषु प्रमाणं तत्सहकारित्वमात्रेणैव इतरयोरुपयोगात्, यदाह-न मानमागमादन्यन्मुमुक्षूणां हि विद्यते ॥ मोक्षमार्गे ततस्तत्र यतितव्यं मनीषिभिः ॥१॥ तसादस्ति नित्यं सुखादीतिचेन्न, दुःखाभावे तत्रानन्दादिशब्दप्रवृत्तेर्भाक्तत्वात् , दृष्टश्च बहुलं लोके तत्र सुखशब्दप्रयोगः, तथाहि केचिदिन्धनादिभाराक्रान्तमूर्तयोऽमन्दस्यन्दमानस्खेदोदबिन्दवो विपिनादागत्य अन्तरा शिशिरसान्द्रद्रुमच्छायायां भारमवतार्य निविष्टाः सुखेन जीविताः सेति ब्रुवाणा उपलभ्यन्ते, न च नित्यसुखरागेण प्रवर्त्तमानस्य योगिनो मुक्तिर्घटते, रागस्य बन्धनसमाख्ययाभिधानात् अन्यथा स्वाराज्यादिकृतेऽपि तपस्यतो मुक्तिप्रसङ्गात् , तपस्यादेर्मुक्तिहेतुतयापि श्रुतेः, किं च नित्यं ज्ञानं सुखं च ज्ञानान्तरेण वेद्येते नवा, न चेत् सतोरपि असत्कल्पना असंवेद्यखात्, वेद्येते चेत् न, तत्र वेदकज्ञानान्तरानभ्युपगमात् तथाले वाग्नवस्थापातात, तसान मोक्षे नित्यचैतन्यसुखरूपता जीवस्येति,अत्रोच्यते यत् तावदुक्तं सन्तानरूपलेन जायमानखात् बुद्धयादीनामत्यन्तोच्छेद इति तत्र किं पितपुत्रपौत्रादिक्रमेण पुरुषसंप्रदायो गोत्राद्यपरनामा सन्तानो विवक्षितः, आहो उपादानोपादेयभावेनोत्तरोत्तरकार्यपरंपरोत्पादः, उत सामान्येन सजातीयकार्यकारणप्रवाहः, न प्रथमः, तस्य पुरुषेष्वेव प्रसिद्धेः बुद्धयादीनां च गुणत्वाभ्युपगमेन तदभावात् , |न द्वितीयः, तेषामात्मोपादेयत्वस्वीकारेण परस्परमुपादानोपादेयभावानङ्गीकारात्, तथा च पक्षद्वयेऽपि विशेषणासिद्धो हेतुः, किंच उत्तरोत्तरकार्योत्पादोऽपि किमविच्छेदेन, विच्छेदेन वा, नायः, सुषुप्तमूछिताद्यवस्थासु तेषां भवता विच्छेदोपगमात् नापरः, दृष्टान्तीकृतप्रदीपे उपादानोपादेयभावेन उत्तरकार्याणामविच्छेदेनोत्पादात् , तथाच साधनैकदेशासिद्धया साधनविकलो
|
For Private and Personal Use Only