SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobbith.org Acharya Shri Kailassagersuri Gyanmandie तत्वज्ञानात्सकलवासनाक्लेशजालबन्धनाद् वियुक्तस्य सिद्धिसौधमध्यासीनस्य इत्यर्थः, चित्तसन्तानस्येत्यर्थात् पुनरागमनं मुक्तिपदात् च्युखा गर्भाधानादिक्रमेण भूयोऽपि शरीरेन्द्रियादिसम्बन्धलक्षणमनुष्यजन्मप्राप्तिः कुतः कसा तोर्भवति जायते, हेत्वभावे फलाभावस्य सुलभत्वान्न कुतश्चिदपि इत्यर्थः, इति गाथार्थः ॥९५॥ कुतःपुनस्ते मुक्तस्यापि पुनरागमनमातिष्ठन्ते, कुतश्च तदप्रमाणकमित्येतत्सोपपत्तिकं प्रतिपादयितुमाहता नियपक्खनिरागारदसणा एइ झत्ति मुत्तो वि ॥ एयमसगयमणिमित्तिमित्थ संसाररूवं जं ॥९६॥ व्याख्या-यस्मात् मुक्तस्य पुनरागमनं दुरुपपादं 'ता' इति तस्मात् एतदसंगतमिति संबन्धः, निजपक्षस्य खकीयसंघस्य, |अथवा प्रामाणिकतयाऽभ्युपेतस्य क्षणभङ्गनैरात्मादिलक्षणस्य वसंमतस्य 'निराकारो' राजादिभिः पराभवः परतीर्थिकैल्पादिकथायामुपपत्तिभिर्निरसनं वा अप्रामाण्यापादनमिति यावत् ,तस्य दर्शनं निरुपप्लवज्ञानेन साक्षात्कारस्तस्मात् कारणात् , 'एति' मुक्तिपदादवतीर्य शरीरादिपरिग्रहक्रमेण संसारमधिवसति, 'झटिति' तत् क्षणात् दर्शनानन्तरमेवेत्यर्थः, मनखिनां वपक्षतिरस्कारस्य दुःसहत्वात् , तथा च तत्स्वरूपसूचकं कस्यचित् कविरूपस्य वचः, 'ब्रूत नूतनकूष्माण्डफलानां के भवन्त्यमी ॥ अङ्गुलीतर्जनायेन न जीवन्ति मनखिनः ॥१॥ इति, 'मुक्तोऽपि' क्षपितनिखिलकर्मजालोऽपि आस्तां संसारी सहि रागादिकलुषितत्वेन खपक्षपराभवमसहिष्णुर्दूरादपि एत्य अपरैः सह विजिगीषया युद्धविवादादिकं तावदारभते एवेत्यपिशब्दार्थः,इति यदुच्यते कैश्चिद् 'एतद्' इदं | 'असंगतं' निष्प्रमाणतयाऽसमीचीनं, ननु मा भूत् तदनुयायिनीयां प्रजानामनाश्वास इति मुक्तोऽपि यदि स्वपक्षरक्षणाय इहावर्तेत For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy