________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
| बृहद्वृत्तिः
॥१७॥
अन्यथाऽतिप्रसङ्गात् , नापरः, पुरुषात् तस्यानपगमापातात, नहि यद्यतोऽव्यतिरिक्तं तत् ततस्तत्खरूपवत् कदाचिदपैति, तथाले वा प्रधानादपि सत्त्वादिगुणानामपायापत्तेः, मा भूत् पुरुषात् तस्थापगमः, का नो हानिरितिचेन्न, तस्य स्वरूपलाभावेन स्वरूपेणावस्थानं मोक्ष इतिलक्षणक्षतिग्रसङ्गात् , अस्तु तर्हि आहार्यखात् खसाध्यस्य विवेकदर्शनस्य साधितखात्तस्थापगम इतिचेत् , एवं तर्हि सत्यपि पुरुषेऽपगमात् तद्व्यतिरिक्तोऽसौ भवेत् , तत्र च दोषस्य प्रागेवोक्तखात् , अपि च विवेकदर्शनानन्तरं पुरुषात् तस्य विगमाभ्युपगमे जीवन्मुक्तेरभावापत्तिः, भूतभवद्भाविसकलपदार्थसाक्षात्कारिज्ञानवत्तया हि तत्त्वं व्याच|क्षाणो नीरागः पुरुषो जीवन्मुक्तोऽभिधीयते, तत्त्वसाक्षात्कारापाये चोपदिशन्नपि असौ अनवधेयवचनः स्यात् , तथाच शास्त्रप्रणयनतत्पूर्वकक्रियाविधिलोपेन बहु विशीर्येत, न तृतीयः, तत्त्वज्ञानस्य बुद्धिधर्मत्वात् तद्गताच्चैकस्मात् तदुभयोरपि तद्दर्शनानुपपत्तेः, नहि सहकसम्बन्धिनो लोचनाददृशोऽपि चाक्षुषं ज्ञानं जायत इति वक्तुं युक्तं, बुद्धिसम्बन्धात् तच्छायापच्या पुरुषेऽपि तदस्तीति चेन्न, छायायास्ततो भिन्नत्वे पूर्वदोषानतिवृत्तेः, अभिन्नत्वे वा परिणामितया तस्य स्वरूपहानापत्तेः, एवं च विवेकदर्शनानुपपत्त्या सांख्यपक्षे मोक्षो न संगच्छत इति स्थितं, तैश्च बन्धमोक्षयोरपि वैयधिकरण्यमास्थितं तच्च तयोः सामानाधिकरण्यव्यवस्थापनेन इह निराकृतं, तथाच बन्धप्रतियोगितया तन्मोक्षोऽपि अत्रैव निराकरणमहतीति वन्धतत्त्वनिरूपणावसरेऽप्यसौ निराकृत इति नानुक्तोपालम्भः शंकनीयः, तदेवमतिप्रसङ्गापादनेन प्रकृत्याद्यभावप्रसाधनेन च सांख्याभिमतौ प्रकृतिपुरुषयोयथाक्रमं बन्धमोक्षौ निरस्य पूर्वप्रकान्तसौगतविशेषपक्षेपि मोक्षादिकमेतद्गाथोत्तरार्द्धन सार्द्धया चोत्तरगाथया निरस्थन् नाह 'निस्सेसेत्यादि' षष्ठीसप्तम्योरथ प्रत्यभेदात् सप्तम्यन्ताभिधानेऽपि इह सुखप्रतिपत्तये निःशेषकर्ममुक्तस्येति व्याख्येयं, तेन
॥१७॥
For Private and Personal Use Only