________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
1-1-%%
CAREE
४ प्रध्वंसेन तस्य चारित्राद्यवाप्तिक्रमेण मोक्षसिद्धेः, आदिमता तत्त्वज्ञानेन कथं चिरपरूढस्य तस्य प्रध्वंस इतिचेन्न, योगानुग्रहात्तस्य
दृढतया प्रत्यग्रतया चातिवलीयस्वेनोत्पत्तेः, दृश्यते च लोके बहोः कालादनेकरङ्गाङ्गनलब्धविजयस्यापि कस्यचिन्महामल्लस्य |केनचिन्नवयौवनोन्मदिष्णुतया इति विक्रान्तेन पराजयः, तथापि तीव्रातपेन लवाङ्कुर इव कुतश्चित्संस्कारात् पुनःप्ररूढेन मिथ्याज्ञानेन तत्त्वज्ञानं बाधिष्यत इतिचेन्न, धियां तत्त्वार्थपक्षपातितया प्राप्तसामर्थेनादिमताऽपि तत्वज्ञानेनानादिमस्यापि मिथ्याज्ञानस्य समूलकाषं कषितलेन पुनः प्ररोहाभावात् , तथाच कथं तेन तस्य बाधो भवेत् , यदाह-निरुप्लवभूतार्थस्खभावस्य विपय॑यैः, न बाधयन्नवखेऽपि बुद्धस्तत्पक्षपाततः, एतेन प्रकृतिपुरुषविवेकदर्शनादुपरतायां प्रकृतौ पुरुषस्य स्वरूपेणावस्थानं मोक्ष इति, सांख्यानां मोक्षलक्षणमपास्तं, तथाहि कोऽयं प्रकृतेरुपरमो ? विनाशो वा, निर्व्यापारख वा, नाद्यः, तस्या नित्यखा-18 ङ्गीकारात्, न द्वितीयः, प्रवृत्तिशीलाया निर्व्यापारवासंभवात् , विवेकदर्शनात् कृतार्थवेन तत्संभव इति चेन्न, किं प्रकृतेः पुरुपाद् विवेकदर्शनं, पुरुषस्य वा प्रकृतेः, परस्परं द्वयोरपि वा, न प्रथमः, प्रकृतेरचैतन्येन तदयोगात्, दर्शनस चेतनधर्मखात्, | चेतनोपरागात् तद्योग इति चेन्न, तदानीं तस्यापि निवृत्तेः, अनिवृत्तौ वा प्रागिव विवेकदर्शनस्यासिद्धः, न द्वितीयः, पुरुषस्य हि विवेकदर्शनं चित्खरूपखात् वा स्यात् तत्त्वसाक्षात्कारात् वा, नाद्यः, संसारावस्थायामपि तद्रूपखात्यागेन तत्प्रसङ्गात् , न द्वितीयः, | तस्य बुद्धिधर्मखान, अन्यधर्मेण चान्यस्य विवेकदर्शने सर्वात्मनामपि तदापत्तेः, प्रकृत्या विवक्षितपुरुषसम्बन्धितया बुद्धरुत्पाद|नेन तद्धर्मस्यास्य तत्र संक्रान्तिः, तथा चान्यधर्मवेपि तस्यैव विवेकदर्शनं नान्यस्य इत्यतो नातिप्रसङ्ग इतिचेन्न, सहि संक्रामहै। ततो व्यतिरिक्तोऽव्यतिरिक्तो वा स्यात् , नाद्यः, अनाहितातिशयतया प्रागवस्थातो, विशेषेण तसाद् विवेकदर्शनानुपपत्तेः,
AC-का -५
For Private and Personal Use Only