SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ५लि. ॥१६॥ तिदेशे युगपदेवानन्तानामपि शरीरादीनामुत्पादापातात् , कारणसामग्रीतः कार्यस्यावश्यंभावात् , तत्तद् धर्माधर्मादिसहकारिविरहात न युगपत्तदुत्पाद इतिचेन्न, धमोदीनामपि प्रकृतिकायेतदव्यतिरिक्तबुद्धिधर्मलेन शश्वत्सनिधानात्, तथा च बुद्धिलक्षणपुरस्सरं तद्धर्मानभिदधता व्याहृतमीश्वरकृष्णेन 'अध्यवसायो बुद्धिधर्मो ज्ञानं विराग ऐश्वर्यम् । सात्विकमेतद्रूपं तामसममाद्विपर्य्यस्तं । तसादेकदेशकााभ्यां बन्धहेतोर्मिथ्याज्ञानस्यासंभवान्न प्रकृतेर्वन्धः, तदभावान्न तस्याः संसारोऽपि बन्धस्यैव संसारबीजतया सर्ववादिभिरिष्टवाद , एवं च प्रकृतेबॅन्धादीनामयोगात् तत्कृतानां तेषामात्मनि उपचार इति वाङ्मात्र, मुख्याभावे उपचारस्यापि असिद्धेः, नहि ककुदादिमतो मुख्यस्थार्थस्य कचिदपि अभावे भारवहनजाव्यमान्यादिना तत्साधम्र्येण गौर्वाहिक इत्यादौ वाहिके लक्षणया गोशब्दप्रवृत्तिः संगच्छते, तसादात्मन एव यथासंभव मिथ्याज्ञानादितत्त्वसाक्षात्कारादिनिवन्धना बन्धादयोऽभ्युपेतव्याः, किमन्तर्गडभूतप्रकृतिखीकारग्रहेण, यदपि भृत्यगतजयपराजयोदाहरणेनोपचारसमर्थनं तदपि न चारु, तत्रहि खामिनोऽपि वास्तवौ जयपराजयौ संभवत एव, तस्यापि कदाचित् वयं युध्यमानस्य तदुपलम्भात् तेन भृत्यगतावपि तौ कदाचित्वामिनि उपचर्येते, इह तु पुरुषस्य निष्क्रियखेन सर्वथा बन्धाद्यभावात् प्रधानस्य तु तदभ्युपगमेऽपि उक्तन्यायेन तदसंभवात् कथं तद्गतानां तेषां तत्रोपचारः क्रियमाणः शोभेत उपचारलक्षणस्य सर्वथैव अत्रानुपपत्तेः, न च नायकादिव भृत्यस्यैव उपकुर्वतोऽपि प्रधानस्य पुरुषात्कश्चिल्लाभः, अनर्थितयैव तस्य पुरुषार्थ प्रवृत्तिस्वीकारात् तस्मादसममुदाहरणं, न चानादिना मिथ्याज्ञानसंतानेनापरापरमिथ्याज्ञानजननात् नास्त्येव तत्त्वज्ञानप्रादुर्भावावसरो येनात्मनोऽपि मिथ्याज्ञानाधुच्छेदक्रमेण मोक्षः स्यादिति वाच्यम् , अचिन्त्येन वीर्यमहिम्ना दीर्घकालादरनैरन्तर्याभ्यासप्रकर्षप्राप्तयोगाविर्भूतात् तत्त्वज्ञानान्मिथ्याज्ञान ॥१६९॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy