________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकृतेरप्रवृत्या संसारिणां मनुष्यादीनामपवृत्तेषु देशेषु भोगः कैवल्यं च न स्यात्, अनपवृत्तदेशेषु तस्याः प्रवृत्तिसंभवेन आत्मनां भोगादिकं भविष्यतीतिचेत्, एवमपि भवतु नारकामरादीनां न तु मनुष्यादीनां तेषां मनुष्यलोकं विनाऽन्यत्रानुत्पादात् , मनुष्यांश्च विहायाऽपरेषां मुक्तेरनभ्युपगमात्, अभ्युपगमवादेन च एतदुक्तं, वस्तुतस्तु अनपवृत्तदेशेषु कस्यापि भोगोऽपि न युज्यते, एकदेशेन प्रकृतिपरिणामास्वीकारात्, न द्वितीयः, सर्वसंसारिणां भोगाद्यनुत्पादप्रसंगात् , तदुत्पादस्य प्रकृतिनिवन्धनखात् तस्याश्च मुक्तलेनाप्रवृत्त्या तदुत्पादनासंभवात् , अपि चैवमभ्युपगमे महांल्लाभः, मनुजव्यतिरिक्तानामपि सकलसंसारिणां यमनियमादियोगाङ्गाभ्यासप्रयासमन्तरेणापि कैवल्यसिद्धेः, पुरुषाणां खतो निलेपखेन प्रधानबुद्धयादिसम्बन्धनिर्मितस्यैव रागद्वेषकषायादिपङ्कलेपस्याङ्गीकारात्, अत एव खरूपेण निर्दुःखा अपि आत्मानः प्रधानसभेदात् तद्गतमाध्यात्मिकाधिभौतिकाधिदैविकलक्षणं दुःखत्रयं खसम्बन्धितयाभिमन्यमानास्तद् विहन्तुं प्रधानदर्शनं प्रार्थयन्त इति भवतामभ्युपगमः, प्रकृतेर्मुतखेन तु तदनुषङ्गाभावात् अयत्नसिद्धं दुःखत्रयापगमलक्षणं तेषां कैवल्यं, न च कश्चित् सहृदयः सुखेनैवाभिमतमासादयन्नात्मानं तत्सिद्धये क्लेशयितुमभिलपति, तस्मान्न कथंचित् प्रकृतेर्मुक्तिसंभवः, तदभावान बन्धोऽपि परस्परापेक्षखात् बन्धमोक्षयोः, यथाहि
बन्धाभावो मोक्ष इत्यत्र स्वप्रतियोगिनं बन्धमवलम्ब्य मोक्षशब्दप्रवृत्तिस्तथा स्वप्रतियोगिनमेव मोक्षमपेक्ष्य बन्धशब्दोऽपि प्रवचिते, एवं च नित्यखतत्प्रतिषेधरूपाऽनित्यनयोरिवाया अप्यनयोरेकतरापायेऽन्यतरस्यापि अपायप्रसङ्गः, अपि च मिथ्याज्ञान
निबन्धनोहि बन्धोऽभ्युपेयते, तच्च किं प्रकृतेरेकदेशे वर्तते सर्वात्मनि वा, नाद्यः, तदाहि मिथ्याज्ञानविरहिणि तद्देशे बन्धाभा| वात् पुरुषस्यापि तदुपरागहेतुकानां महदादिक्रमेणापरापरजन्मनामभावापत्तेः, न द्वितीयः, एकस्यापि पुरुषस्य सर्वसिन्नपि प्रकृ
For Private and Personal Use Only