SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः १लि. ॥११॥ स्त्रीचन्धकाः स्त्रीतिभावप्रधानो निर्देशः, तेन स्त्रीत्ववेद्यस्य स्त्रीवेदकर्मणो बन्धका आत्मनि अन्योन्यानुगमेन संयोजकाः, तत एव मिथ्याभिनिवेशादेव, के ते अत आह महाबलःप्राक्तनजन्मनि मल्लिस्वामिनो जीवो महाबलनामा राजर्षिस्तथा पीठमहापीठौ श्रीनाभेयपुत्र्योाहीसुन्दर्योजीवौ प्राग्भवे पीठमहापीठाभिधानी सोदरौ यती, यथा चैषां स्त्रीबन्धकत्वं तथा उदाहरणे व्यक्तीभविष्यति, तथा इतोऽस्सात् दारुणभवभ्रमणकारणात् इत्यर्थः ॥८॥ मिथ्याभिनिवेशात् लिङ्गात् , उत्तरार्धगतस्य तत्पदस्य इह सम्बन्धात् मिध्यादृष्टयो ज्ञेया इति सम्बन्धः, जमालि: श्रीमन्महावीरजामाता भगवत्पार्श्वे एव प्रपनवतो राजपुत्रः, 'गोष्टामाहिला' श्रीमदायेरक्षितमातुलः तत्समीपे एवाभ्युपेतदीक्षो भिक्षुः, ततो द्वन्द्वः तौ आदि पूर्वी येषां ते तथा आदिग्रहणात् तिष्यगुप्तापाढाश्वमित्रगागात्रैराशिकप्रभृतयो ग्राह्याः, एतत्संविधानकानि च आवश्यकादिभ्योऽवसेयानि, अपिः महाबलाद्यपेक्षया समुच्चये, निळुवते मिथ्याज्ञानाद् अश्रद्धालुतया प्रमाणाबाधितमपि भगवद्वचनम् अपलपन्ति न रोचयन्त इतियावत् , निवाः, एकट्यादिभगवद्वचनारोचकिनां श्रुते निह्नवसंज्ञा 'सर्वे' समस्ताः सप्तापि इत्यर्थः ॥ मिथ्याभिनिवेशेन सर्वज्ञवचनारोचनात् मिथ्यादृष्टयः' तदुक्तम् , सूत्रो-| क्तस्य एकस्याप्यरोचनाद् अक्षरस्य भवति नरः, मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् ।१॥ तेन मिथ्यादृष्टितया अनुमेया इत्यर्थः, मिथ्याभिनिवेशस्य मिथ्यात्वकार्यतया तल्लिङ्गत्वात् , 'प्रशान्ता' अपि? मिथ्यालोदयानन्तानुबन्ध्युदयवन्तोऽपि शाठ्यादेर्बाह्यवृत्त्या सौम्यमनोवाकायत्वेन अविभाव्यमानतदुदया आस्तामप्रशांता इत्यपेरर्थः, यथा चैषां मिथ्याभिनिवेशस्तथा उदाहरणे व्यञ्जयिष्यते इति गाथाद्वयाक्षरार्थः ॥८॥९॥ तत्र महाबलस्य तावत् तदभिधीयते तथाहि। जम्बूद्वीप इह द्वीपो विद्यते वेदिसुन्दरः। १ वेदिसुन्दर इति, अष्टयोजनोच्छ्यजगती परिक्षिप्तोऽत एव गर्तपूरश्रीधरः ॥१॥ ॥११॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy