________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
FOL
MAALEXANEARS
भिनिवेशात् प्रषचनबाधितार्थविषयगाढमानसनिर्बन्धात्, भवति जायते नानन्तानुवन्धिभ्यः, अयमाशयः यदिहि अनन्तानुबन्धिनाम् अतत्त्वरुचिखरूपं स्यात् , तदा तेषां कार्योऽसद्हो भवेत् कारणानुरूपखात् , तथाच तस्योपशमः सम्यक्लकार्यत्वात् तल्लिङ्गं स्थात् , यथा असत्पक्षेऽतत्त्वरुचिरूपमिथ्यात्वकार्यस्य मिथ्याभिनिवेशस्य उपशमः सम्यक्त्वलिङ्गं तत्कार्यत्वात् , नचैवमस्ति उक्तयुक्तरेव अनन्तानुबन्धिनाम् अतत्वरुचिरूपत्वाभावात् असगृहस्य च मिथ्याभिनिवेशकार्यत्वात् , अत एव तत्कार्यत्वेन तदभिव्यअकतया उपचारात् असगृह एव कचिन्मिथ्याभिनिवेश उच्यते, तस्मात्तस्यैव उपशमः सम्यक्त्वलिङ्गं नान्यस्येति गाथार्थः ॥ ७॥ तदेवम् अनन्तानुबन्ध्युपशमस लिङ्गत्वं निरस्य मिथ्याभिनिवेशोपशमस्स लिङ्गत्वं निगमयन् मिथ्याभिनिवेशफलं च निदर्शनैः दशेयन् गाथाद्वयमाह
तस्मुवसमो उ लिंगं सम्मत्तं गमइ जंतुणो नियमो। त्थीबन्धगा तओ एव महाबलो पीढमहापीढा ॥८॥ ___ इत्तो जमालिगुट्ठामाहिलमाई वि निण्हगा सक्छ । मिच्छाभिनिवेसाओ मिच्छदिट्ठी पसंता वि॥९॥
व्याख्या-'तस्सुवसमो उ' तस्य पूर्वोपक्रान्तस्य मिथ्याभिनिवेशस्य उपशमः मिथ्यात्वक्षयोपशमात् सर्वथा विगमः, 'तुरेवकारार्थः तस्य इत्यनेन सम्बध्यते तेन तस्यैव उपशमः, 'लिङ्गं गमकं तच्च 'सम्यक्त्वम्' उक्तरूपं 'गमयति' अस्तित्वेन ज्ञापयति । अनुमापयतीति यावत् , जन्तो व्यसत्त्वस्य आत्मनि वर्तमानं 'नियमाव' अवश्यंभावेन अव्यभिचारितया इतियावत् , साध्या व्यभिचारिण एव तस्य लिङ्गतया अभिमतत्वात् तथाच प्रयोगः विवादाध्यासितः प्राणी सम्यग्दृष्टिः मिथ्याभिनिवेशोपशमवचात्, य एवं स एवं यथा श्रेणिकश्रावकः तथाच अयं तसात् तथा, तसात् तदुपशमे यतितव्यं, तदनुपशमस्य दुरन्तखादू इत्याह
For Private and Personal Use Only