________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहद्वृत्तिः
पंचलिंगी स्त्या च नरकादिनिमित्तता, प्रागेव तेषां क्षयोपशमं नीतखात् , एवम् अप्रत्याख्यानप्रत्याख्यानावरणानाम् अपि कषायाणां यथा
क्रमं तिर्यअनुष्यगतिहेतुखप्रसङ्गो भवदुद्भावितो मत्पक्षे नावतरति, सम्यक्त्वानुगतानां तेषामपि तदानुभावादितया देवगतिहे॥१०॥ तुखादिति, गाथाद्वयार्थः ॥ ६॥ ननु मा भूत् अनन्तानुबम्ध्युपशमो लिङ्गम् अनन्तानुबन्धिकार्यासद्होपशमो लिङ्ग भविष्यति
इत्याशङ्का निराकरणचिकीर्षया आह
अत्तत्तरुईरूवं मिच्छत्तस्स उ न तं अणंताणं । असदग्गहो तओ खलु मिच्छाभिनिवेसओ होइ ॥७॥ __ व्याख्या-'अतत्त्वेषु' रागद्वेषाभिव्यञ्जककामनीशस्त्रादिपरिग्रहकलङ्किततया देवेषु, परिग्रहारम्भदम्भस्तम्भाब्रह्मानिमग्नतया गुरुषु, धर्म्यख>हिंसादिप्रतिपादकतया वेदादिषु अपारमार्थिकेषु रुचिस्तत्त्वबुद्धिः, तकारस्य गुरुत्वं प्राकृतत्वात् 'रूपम्' इतरपदार्थविलक्षणं खभावो लक्षणं वा, 'मिथ्यात्वस्य' सम्यक्सप्रतिपक्षस्य कर्मणः, तुरवधारणे, मिथ्याखस्सैव एतद्रूपं, यदुक्तम् 'अदेवे देवता बुद्धिरगुरौ गुरुर्भावना । अतत्वे तत्त्वबुद्धिश्च एतन्मिथ्यात्वलक्षणम् ॥१॥ न तद् अतत्त्वरुचिलक्षणं 'रूपम् ' 'अनन्तानाम् अनन्तानुवन्धिनां प्रज्वलनाद्यात्मकतया सामान्यतश्चारित्रावारकबखरूपखेन तेषां प्रसिद्धः, तथाच सति किमित्याह 'असत् सवेश
सिद्धान्ततिरस्कृतार्थगोचरत्वात् , अशोभनो, 'ग्रहा' अभिनिवेशपूर्वो व्यापारः, स च लोके मिथ्याभिनिवेशव्यञ्जिका कुदेवकृतीदर्थ्यादिषु स्तवनवन्दनपूजनादिदृढप्रयत्नवती बाह्या वाकायादिचेष्टा, लोकोत्तरे चोच्छृखलतया लोकलोकोत्तरविरुद्धकर्मकारिणाम्
उत्सूत्रभाषिणां पार्श्वस्थादीनां गृहिदिग्बन्धाद्यासमयोत्तीर्णबाह्यचेष्टा असदह इह विवक्षितो सूत्रकृता तथैव वक्ष्यमाणखात् , अत्र च असन् इतिवक्तव्ये दकारपाठः प्राकृतस्त्रात् 'तओत्ति' ततो मिथ्याबमूलकार्यत्वेन प्रसिद्धात् , खलरवधारणे, तत एव मिथ्या
RAIGAMEOCOCKS
॥१०॥
For Private and Personal Use Only