SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANGREWARRIAGESAR एवं व्याख्या-देशयतीनां च कथं वा मनुष्यायुर्बन्धयोगः, विवक्षितागमबलात् तेषां मनुजायुर्वन्धयोगः एव प्राप्नोति, स च न घटा प्राश्चति इत्यर्थः, अत्र च अनानुपूर्वी अपि व्याख्यानं भवतीति ज्ञापनार्थम् अप्रत्याख्यानाद्युदयक्रमेण अनिष्टप्रसङ्गा उद्|भाविता अन्यथा पश्चानुपूर्व्या प्रत्याख्यानावरणायुदयक्रमेण पूर्वानुपूर्व्या च अनन्तानुबन्ध्याधुदयक्रमेण ते उद्भावयितुं युज्येरन , संज्वलनोदयस्य च सम्यग्दृशां मिथ्यादृशां वा अविशेषेण देवगतिहेतुत्वाभिधानात् तत्त्वेन अनिष्टप्रसङ्ग उपन्यस्तः, ननु भवत्पक्षेपि 'पक्खचउम्मासेत्याद्यागमे वा नानन्तानुबन्ध्यादीनां यावज्जीवाद्युदयवत्ता प्रतिपादनात् सम्यक्खाभावो नरकगतिरविरतसम्यग्दृष्ट्यादीनां तिर्यग्गत्यादिप्रसङ्गश्च केन वारणीयः' ततश्चैतद् व्यवस्थितं 'यत्रोभयोः समो दोषः परिहारश्च तत्समः | |नैकः पर्य्यनुयोज्यः स्यात् तादृशार्थविचारणे॥शाएवं चायम् आगमो भवतापि कथं समाधेयः? इति चेत् सत्यं मिथ्यात्वोदयसह 8 कृतानां तीव्रानुभावानामेव च अनन्तानुबन्ध्यादीनां कांश्चिदेव जीवविशेषान् अधिकृत्य उत्कृष्टतो यावज्जीवाद्युदयवत्तया नरका| दिहेतुखमिति तस्य तात्पर्यात् , यथा श्रुतार्थत्वे बस्स तत्र जन्मनि कस्यचित् सम्यक्खाद्यलाभात् 'सम्मत्तमि उ लद्धे ठइयाई नरयतिरियदाराई इत्याद्यागमान्तरेण विरोधोऽनुसज्येत् , अत एव यदा भव्यो जीवोऽनादिमिथ्यादृष्टिश्चतुर्गतिकोऽपि गिरिसरिदुपलघर्षणनीत्या यथाप्रवृत्तिकरणेन भूयांसं कर्मराशिम् उत्सार्य भव्यत्वपरिपाकाल्लेश्याविशुद्धितोऽपूर्वकरणेन अभिन्नपूर्व ग्रन्थि भित्त्वा अनन्तानुबन्धिन उपशमय्य अनिवृत्तिकरणेन अन्तरकरणपूर्व मिथ्यात्वोपशमेन तत्र प्रथमतया औपशमिकं सम्यक्त्रम् अन्तर्मुहूर्त्तकालमानम् अवाप्नोति, ततोऽपि विशुद्धाध्यवसायः क्षायोपशमिकं, ततोऽपि कश्चिन्मनुष्यः प्रवर्द्धमानपरिणामः क्षपकश्रेणिम् आरोहन क्षायिक लभते, तदा क अनन्तानुबन्धिनाम् उदयावकाशः, क च तेषां सम्यक्तादिधातुका शक्तिः, कुत For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy