________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| बृहद्वृत्तिः
लि.
पंचलिंगीद्धायुषां वैमानिकसुरेषु एव सिद्धान्ते आयुर्बन्धश्रवणात, तदुक्तम् 'सम्मदिट्ठी जीवो विमाणवज्झं न बंधए आउं । जइ विन सम्म-16
त्तजढो अहवा बद्धाउओ पुच्विं ।। तस्माद् अयमपि न विशेष इति भावः ॥५॥ तथा 'यावज्जीवं' जीवितं यावत् विवक्षितागमे उदयम् अधिकृत्य 'अनन्ताः' अनन्तानुबन्धिन उक्ता इति शेषः, ततः किम् इत्यत आह 'मिथ्या' विपरीता भक्षितहृत्पूरस्य सितादिषु पीतिमप्रतीतिवद् अर्हत्प्रणीतजीवाजीवादितत्त्वगोचरा दृष्टिः प्रतिपत्तिर्यस्य स तथा, 'कथं' केन प्रकारेण 'लभेत' | प्राप्नुयात् , सम्यक्त्वं न कथंचिदपि इति भावः ॥ भवन्मतेऽनन्तानुबन्धिनां यावज्जीवोदयवत्तया सम्यक्सप्राप्त्यवसरप्रतिघातक-| खात् , न चैवम् इष्यते तमिन्नेव जन्मनि भूयसां मिथ्यादृशां कयाचित् सुसामग्र्या सम्यक्त्वलाभश्रवणादिति, तथा सर्वसावधयोगस्य 'देशे' एक व्रतविषयस्थूलसावद्ययोगादौ सर्वव्रतविषयानुमतिवर्जसावद्ययोगान्ते यतिर्विरतिर्येषां ते तथा, देशेन एकदे-| शेन वा स्थूलप्राणातिपातविरमणादिना, यतयः साधवः, नतु सर्वतः प्रत्याख्यानावरणोदयेन तेषां सर्वविरतिपरिणामामा-| वात् , ततश्च देशयतयश्च पञ्चमगुणस्थानवर्तिनः, 'कथं वा' केन वा प्रकारेण, वा विकल्पे न च मनुजायुर्वन्धयोग्यास्तु तत्र मनुजायुषो नरायुषो बन्धः आयुष्कर्मदलिकानां जीवप्रदेशैः सह वह्नययस्पिण्डवत् अन्योन्यानुबन्धस्तस्य योग्या उचिताः, चः समु-त चये स च देशयतय इत्यत्र योजित एव, तुरवधारणे स च नत्रा संबध्यते तेन अयमर्थः, खदुक्तागमाभिप्रायेण देशयतयः कथं 2 वा मनुजायुर्बन्धयोग्या नैव अपि तु तद् योग्या एव, प्राप्नुवन्ति प्रकृतागमे प्रत्याख्यानावरणोदयवतां मनुजगतिप्राप्तिश्रुतेः न चैवं ४ | देशविरतानां जघन्यतः सौधर्मे उत्कृष्टतोऽच्युते उपपातप्रतिपादनात् यदाह 'अविराहियसामन्नस्स साहुणो सावगस्स य जहन्नो सोहम्मे उववाओ भणिओ तेलोकदंसीहिं १। उववाओ सावगाणं उक्कोसेणच्चुओ जाव, मणुयाउ बन्धजोगोउ इति ॥ पाठान्तरेतु
For Private and Personal Use Only